पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाष्यगतः सन्दर्भ उद्धृतो दृश्यते । नेदं चिन्तनीयं यद् योगभाष्यकारों जैनग्रन्थम् अनुनकारेति । तत्त्वार्थाधिगमटीका ५-६ खीष्टशतकीयेति ऐतिहासिकाः, अतो भाष्यमिदमेतत्कालादरि प्राचीनमिति वक्तव्यमेव । योगभाष्योद्घृतानि मतानि, संप्रदायाञ्च-ग्रन्थेऽस्मिन् बहूनां दार्शनिक संप्रदायानां मतान्युद्घृतानि । व्याख्याकद्भिर्यथायथं तेषां विवरणं प्रदत्तम् । तथाहि — ( १ ) वैनाशिकबौद्धमतम्'- १-४।१४ भाष्ये 'नास्त्यर्थो विज्ञानविसहचर ....इत्यादि यद्वाक्यं, तद् वैनाशिकदृष्टि ( विज्ञानवादयुक्तां ) प्रतिपादयति । तथैव ४|११ भाष्यगतं वाक्यम् (स्यादाशङ्का चित्तमेव ) अपि वैनाशिक- मतपरमिति भिक्षुः । ४।२१ भाष्येऽपि वैनाशिकमतमस्ति ( स्यान्मतिः) । १।४३ भाष्ये यदुक्तं –यस्थ पुनरवस्तुकः' इति, तद्वैनाशिकमतमिति भिक्षुः । ( २ ) बाह्यार्थवादिवैनाशिकमतम् - ४ | २३ भाष्ये मतमिदमस्ति ( तद्- नेन चित्तसारूप्येण भ्रान्ताः केचित् तदेव चेतनमाहुः ) । बाह्यार्थवादिनां मतमिदमिति भिक्षुः । अत्राह विवरणकारः- “एतत्तु चित्तसारूप्यं वैशेषिकाणां प्रमोहकारणम्" इति । ( ३ ) शुद्धसन्तानवादिमतम् - ४ | २१ भाष्ये 'केचित् सत्त्वमात्रमपि परिकल्प्य' इत्यादि यदुक्तं तत् शुद्धसन्तानवादिमतमिति हरिहरानन्दचरणः । वैनाशिक विशेषाणां मतमिदमिति विवरणकारः | (४) शून्यवादिमतम् – ४ | २१ माध्ये यदुक्तं ( तथा स्कन्धानां महा- निर्वेदाय अपह्नवते ) तत् शून्यवादं लक्षयतीति स्रष्टमेव । ( ५ ) विज्ञानवादिमतम् - ४ | १६ भाष्ये 'केचिदाहुः ज्ञानसहभूरेवार्थः इत्यादि वचनं खल्वेतद्-दर्शनपरम्, बाह्यार्थमुपगच्छतामिदं मतमिति विवरण- कारः । ४।२३ भाष्ये 'अपरे चित्तमात्र मेवेदम्-' इत्यादिसन्दर्भोऽपि विज्ञान- वादमेव लक्षयतीति भिक्षुः इदं बौद्धमतमिति विवरणकारः |४|१४ भाष्येऽपि ( नास्त्यर्थो विज्ञानविसहचरःआहुः ) विज्ञानवादमेव लक्षितम् । ( ६ ) क्षणिकवादः - ४।२० भाष्ये नामोल्लेखपूर्वकं क्षणिकवादोत्थापनं कृतम् (क्षणिकवादिनो यद् भवनम् इत्यादि ) । तथैव १ | ३२ भाप्ये विक्षिप्त-चित्त-समाधान-विवरण- प्रसङ्गे क्षणिकवादस्य खण्डनं विहितम् । अत्रोक्तं मतं वैनाशिकदृष्ट्येति मन्तव्यम् । १. विधुशेखर भट्टाचार्यकृतागमशास्त्रे, आचार्य नरेन्द्र देवकृत बौद्धधर्मं दर्शन ग्रन्थे ( हिन्दीभाषामये), T. R. V. Murti कृत Central Philosohhy of Buddhism ग्रन्ये चैतेषां वादानां स्वरूपं विवृतम् ।