सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ५६ ) प्राचीनतम चौद्ध दर्शनं निर्दिष्टवान् न्यायभाष्ये । अतः सोऽपि खोष्टपूर्वभव इति निश्चितम् ( द्र० फणिभूषणतर्कवागीशकृता न्यायभाष्यभूमिका, पृ० २६- ३६ ) । अतश्च तेन तत्पूर्ववर्तिव्यासभाष्यवचनं समालोचितमित्यत्र न विप्रतिपत्तिः काचित् । न्यायभाष्यगता भाषा योगभाष्यसदृशैव । उभयत्र प्राचीनतमबौद्धवादा एव निराकृताः, न पुनः दिङ्नागायुपबृंहिता बौद्धवादा इत्यभ्युपेयम् । यदि च प्रमाणान्तरेणेदं सिद्धं भवेद् यद् उभे भाष्ये सम- कालिके इति, अथवा न्यायभाष्यकृद् व्यासभाष्यं न दृष्टवानिति तर्हि वार्षगण्य- ग्रन्थतो न्यायभाष्यकृताऽयं सन्दर्भों गृहीत इत्यभ्युपेयम् । 'तदेतदि'त्यादि- वाक्यं ( ३।१३ व्यासभाष्यवृतम् ) वार्षगणीयमिति युक्तिदीपिकातोऽवगम्यते ( पृ० ६७ ) । योगभाष्यत एव वात्स्यायनेनेदं वाक्यं गृहीतमित्येव युक्तः पक्षः व्यासभाष्य ईश्वरकृष्णकृता कापि कारिका नोद्धृता । यद्ययं ग्रन्थो व्यासभाष्यतः प्रागू रचित आसीत्, तर्हि नूनमस्याः श्लोका भाष्ये उधृताः स्युरिति । ईश्वरकृष्णः खलु खीष्टजन्मतः पूर्वभव आचार्य: (द्र० सांख्यदर्शन का इतिहास, पृ० ४४६ ) । अत एव योगभाष्यकारस्ततोऽपि प्राचीन इति सिद्धयति । व्यासभाध्ये न मङ्गलाचरणं दृश्यते । इयं शैली प्राचीनतमा, न्यायभाष्या- दिष्वपि इयमेव शैली दृश्यते । दार्शनिकशब्दव्यवहारे लथताऽपि क्वचिद् दृश्यते भाष्ये— अनुमेयेति वक्तव्येऽनुमानपदं प्रयुङ्क्ते भाष्यकार: (१।४३ ), भिन्नक्रमणपदप्रयोगोऽपि दृश्यते ( अत्रैव ), कालीनादिपदानि च प्रयुक्तानि ( २।१३ ) । अतो गम्यते अतिप्राचीनमिदं भाष्यमिति । नेदं भाष्यं स्वीष्टजन्मपरभवं भवितुमर्हति, श्रामण्यफलसूत्रे योगभाष्य- (३।४५) गतवचनदर्शनात् । न खलु आर्षग्रन्थकारो बौद्धग्रन्थवचनो- दरणमिच्छति । श्रामण्यफलतस्तु प्रतीयते यदिदं मतं पूर्वप्रचलितम् । भदन्त- धर्मत्रात-भदन्तघोषक-भदन्तवसुमित्रकृतेषु ग्रन्थेष्वपि ३|१३ योगभाष्यगतानि वाक्यानि दृश्यन्ते ( द्र० प्रज्ञापारमिताभूमिका बंगभाषामयी, पृ० ५७ )। अत्र बौद्धग्रन्थकारा एक अघमर्णा इति शेयम्, यतो हि बौद्धाचार्याः पूर्वप्रच- लितयोगविद्यासंबद्धान् शब्दार्थान् गृहीतवन्तः, न पुनरार्षग्रन्थकारा बौद्ध ग्रन्थतः किमप्यादातुमिच्छन्तीति । तथैव जैनग्रन्थेष्वपि योगभाष्यगतं वचनम् उपलभ्यते । ३।२२ योग- माध्यगत आर्द्रवस्त्र-तृणराशियुक्तो दृष्टान्त आवश्यक नियुक्ति - ( गाथा ६५६ ) ग्रन्थे दृश्यते । तत्त्वार्थाधिगमटीकायामपि ( २ | ५२ ) ३ | २२ योग-