पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५५.) विद्वत्समाजे 'व्यासतोऽयं ग्रन्थ' इति प्रसिद्धिर्जाता । यदि व्यासररम्परा- यामस्य भाष्यस्य निर्माणं स्यात्, तर्हि संप्रदायान्तरेष्त्रप्यस्यानुप्रवेशः स्यात्, प्राचीनाः टीकाश्च भवेयुः, न च तथा दृश्यते । यतो हि अतिप्राचीनव्याख्यानावलम्बनेनेदं भाष्यं रचितम्, अत एव पतञ्जलेरेकमनुपलब्धमूलं वचनमध्यत्र (३।४४) उद्घृतं वर्तते, (तदिदं वाक्यं समासभाष्य आसीदिति निश्चीयते ) । काश्चन काललुतशाखास्थिताः श्रुतयो- ऽप्यत्र संगृहीताः ( समासभाष्यकाल एताः श्रुतयः सुप्रचलिता आसन्) । किञ्च ‘तथा च व्याख्यातम्' इति व्यासभाष्यगतं वचनम् (१।४३) भाष्यपूर्व- भाविनः व्याख्यानस्य गमकम् । तच्च समासभाष्यमेवेत्यस्माकं मतम् । इदमपि प्रतीयते यद् व्यासभाष्यगतानि बहूनि वाक्यानि पतञ्जलिप्रोक्तान्येव, अत एत्र पूर्वे विद्वांसः पतञ्जलिवचनरूपेण कानिचन भाष्यवचनान्युद्धृतवन्त इति दृश्यते । व्यासभाष्यरचनाकालः - अस्माभिरनुमीयते यद् बौद्धपिटकरचनातः प्राक् ( बुद्धतः पश्चाच्च ) भाष्यमिदं केनापि योगिप्रवरेण निर्मितम् । तत्काले समासभाष्यं दुरवबोधमभवद् उच्छिन्नप्रायं च । अत एव केनापि योगिना कारुण्यात् समासभाष्योपवृंहणभूतं भाष्यमिदं रचितम् । तत्काले प्राचीनतम- बौद्ध मतप्रचारो' भूयिष्ठ आसीदिति कृत्वा सूत्रतात्पर्य माश्रित्य कानिचन मोक्ष- धर्मविरुद्धानि बौद्धमतानि भाष्यकृता निर/कृतानि । सोऽयं काल: खोष्टपूर्वा चतुर्थी पञ्चमी वा शताब्दीति (ततोऽपि वा पूर्वा) कथयितुं शक्यते । अत एवं प्राचीनपुर राणेष्वपि ( विष्णु-लिङ्गादिषु ) योगभाष्यशब्दानुकृतिः दृश्यते । अत्र पुराणान्येवानुकुर्वन्तीति प्रतीयते, पुराणानां संग्रहात्मकत्वात् । समाजे आर्ष ज्ञानं केनापि रूपेण प्रचलितं स्यादिति मन्त्राना बुधा दुरूहदर्शनग्रन्थोक्तं ज्ञानमाश्रित्य पुराणानि रचयामासुरिति विज्ञायते । न्यायभाष्ये ( १।२।६) योगभाष्यगतमेकं वाक्यं निर्दिश्य खण्डितम् । तदिदं वाक्यं ३।१३ भाष्ये लभ्यते ( तदेतदित्यादि ) । वात्स्यायनः खलु १. खोटपूर्वैवर्तिकालेऽपि बौद्धदर्शनचिन्ताऽऽसीदिति विज्ञायते । कथावत्थु- ग्रन्थतो नैकप्रकाराणि बौद्धमतःनि आसन्निति निश्चीयते । ग्रन्थोऽप्रमशोकनृत्कालिक । एतादृशग्रन्थेषु यानि बौद्धमतानि सन्ति तेषामेव निराकरणं व्यासभाष्ये दृश्यते, न दिङ्नाग धुपबृ' हितानां बौद्धमतानामिति वेदितव्यम् । २. बुद्धकालविषयेऽपि मतभेदा दृश्यन्ते । चीनदेशीयदूतेन युवान्नुआंग- महोदयेनापि केचन मतभेदा दर्शिताः । अतः खोष्टपञ्चमशताब्दो तोपि प्राचीनतरो बुद्धजन्मकालो भवितुमहंतोति ।