नीति | वार्षगण्यस्य यद् वचनं ३।५३ भाष्य उद्धृतं, तत्रेयं चिन्ता जायते कथमत्र प्रथमान्तः वार्षगण्यशब्दः पठितो यतो वाक्यारम्भे 'उक्तम्' इति पदमस्ति । सेयं समस्या उदयवीरशास्त्रिणा विचारिता ( सां० द० इ० पृ० ६०-१०१ ) । ४ । १३ भाष्यधृतो 'गुणानामि'त्यादिश्लोको वार्षगण्यकृत इति वाचस्पतिराह (भामती २ | १ | ३ ) | इदं षष्टितन्त्रवचन मिति तत्त्ववैशारद्यामुक्तम् । भाष्ये आकरनामागृहीत्वा बहूनि गद्यपद्यमयानि वाक्यान्युद्घृतानि ( १ | २८; १९४७; २।१३; २ | २३ इत्यादिषु स्थलेषु ) । ईषत्पाठभेदेन सह अविकलरूपेण वा तानि वचांसि विष्णुपुराण-बृहदारण्यक तैत्तिरीयारण्यकादिषु दृश्यन्ते ( यथास्थानमिदं निर्दिष्टम् ), परन्तु नेदं मन्तव्यं यद् भाष्यकारो निर्दिष्टा करत एव वाक्यानि संकलितवान् इति, यतो हि ग्रन्थान्तरेष्वपि तानि वचांसि अविकलरूपेण ईषत् पाठभेदेन सह वा दृश्यन्ते । तथा हि- १।२८ भाष्यधृतः स्वाध्यायादिति श्लोको यथा विष्णु पुराणेऽस्ति, तथैव सौभाग्यलक्ष्म्युपनिषद्यपि । १।४७ भाष्यवृतः प्रज्ञाप्रासादेति श्लोकोऽहिर्बुध्न्य संहितायामपि ( १५ । ७१ ) दृश्यते । धम्मपदे ( २१८ ), शान्तिपर्वणि ( १७ |२० ) अन्यत्रापि पाठवैलक्षण्येन सहायं दृश्यते । २११५, ३।१३ भाष्ययोर्यद् 'रूपातिशया वाक्यं दृश्यते, तच्च पञ्चशिखोक्तमिति व्याख्या- काराः, इदं वार्षगण्यवचनमित्यपि कथयितुं शक्यते ( द्र० युक्तिदीपिका १३ कारिका ) । मन्ये–पञ्चशिखवाक्यमाश्रित्य वार्षगण्येन स्वग्रन्थः प्रोक्तः, अतः पञ्चशिख-वाक्यान्यपि क्वचिद् वार्षगण्यवाक्यरूपेण संप्रदाये प्रसिद्धानि । ‘यच्च कामसुखमि’ति श्लोको यथा महाभारते, तथा वाय्वादिपुराणेष्वपि दृश्यते । आकरनिर्देश-प्रसंगे क्वचिद् मिश्र-भिक्षुमतयोरैक्यं न दृश्यते । तथाहि- २।५२ भाष्यवृतं महामोहेत्यादि वाक्यमागमिनामिति मिश्रः, पूर्वाचार्याणामिति भिक्षुः । २।५ भाष्यघृतं स्थानादित्यादिवाक्यं श्रुतिरिति भिक्षुः, वैयासिकी गाथेति मिश्रः, एवमन्यान्यपि कानिचन वाक्यानि भिक्षुमतेनैव पाञ्चशिखीयानि, न मिश्रमतेनेति विज्ञेयम् । भाष्य-(४।३१) गतोऽन्धो मणिमित्यादिश्लोक ईषत्पाठभेदेन सह तैत्तिरीया रण्यक- ( १ । ११ । ५ ) ग्रन्थे उपलभ्यते । इदं षष्टितन्त्रवाक्यमित्यपरे, यथाह वृषभदेवः- “इदं फेन इति । षष्टितन्त्रग्रन्थश्चायं यावदभ्यपूजयदिति” (वाक्य- प. १।८ टीका ) । इदं प्रतीयते यद् २।२८ भाष्यधृत उत्पत्त्यादिश्लोकः, ३।१५ भाष्यतो निरोधादिश्लोकश्च योगविचारपरायणात् कस्माच्चिद् ग्रन्थाद् उद्धृत इति । हिरण्यगर्भयोगशास्त्र इमौ श्लोकावास्तामिति कथयितुं शक्यते ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/७२
दिखावट