पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४८ ) प्रसिद्धिः । शूलपाणिरघुनन्दनादिभिरेतद्वचनान्युद्घृतानि ( पृ० ६७०-६७१ सनत्सुजातीयमध्यात्मशास्त्र-प्रन्थस्य वंगभाषामयं संस्क० ) । राज्ञोऽस्य जीवनवृत्तान्तं मेरुतुङ्गकृतप्रबन्धचिन्तामणौ, बल्लालकृतभोज- प्रबन्धे, कीर्तिकौमुद्यामन्यत्र च वर्तते ( वैद्यकवृत्तान्तो नामा वंगभाषामयो ग्रन्थो द्रष्टव्यः पृ० २१५-२१५) । धाराधीशोऽयं परमारवंशीयः; महाराजसिन्धुल- पुत्रो जयसिंह पिता च । भोजस्यास्य राज्यकाल: १०७५-१११० विक्रमसंवत् भवितुमर्हतीति निश्चप्रचम् (सं. व्या० इ० भाग० १ पृ० ४४० ) । राजमार्तण्डवृत्तिर्ललितासहस्रनामभाष्ये निर्दिष्टा नामतः (पृ. ५६ ) | रामानन्दयतिकृत योगमणिप्रभावृत्ति :- इयं भाष्यानुगा वृत्तिरिति ग्रन्थ- कृदेवाह । वस्तुतः भाष्यार्थबोधनमत्र यथास्थानं दृश्यते, भाष्यवचांसि च बहुत्रोद्घृतानि ( क्वचिच्च भाष्यवचनेनैव सूत्रं व्याख्यातमनेन ( १ | २८ ) | योगसुधाकर -वृत्त्या सहास्याः साम्यमपि क्वचिद् दृश्यते । भोजवृत्तिरप्य- नेन नुसृतेत्यवलोक्यते । वाचस्पतिकृत-तत्त्व कौमुदीगतमेकं वाक्यमप्यनेन स्मृतम् (नाम तु नोकम् ) – “एवं प्रतिक्षणं परिणामिनः सर्वे भावा ऋते चितिशक्तेरिति संक्षेपः” ( ३ | १३ ) | वाक्यमिदं पञ्चम सांख्यकारिका- व्याख्यानेऽस्ति । अयं खलु गोविन्दानन्दभगवत्-पूज्यपाद-शिष्य इति ग्रन्थान्तिमपुष्पिकातो विज्ञायते । यद्ययं रत्नप्रभाकर्तुः गोविन्दानन्दस्यान्तेवासीति स्यात्, तर्हि १६१७ शताब्दी अस्य काल इति कथयितुं शक्यते । गोविन्दानन्दशिष्यः रामा- नन्दसरस्वती ब्रह्मामृतवर्षिणी-वृत्ति विवरणोपन्यासं च प्रणिनाय । मणिप्रभा- कारः रामानन्द एवायमिति चिन्तनीयो विषयः । अयं योगसूत्रवृत्तिकारः खलु शिवरामसरस्वति-शिष्य इति गुरुपदहाल- दारमहोदयो वक्ति (सनत्-सुजातीय परिशिष्टम्, पृ. ६६० ) | सूचनेयं कुतोऽधि- गता हालदारमहोदयेनेति न ज्ञायते । नागोजिभट्टकृतवृत्तिः– इयं वृत्तिर्बहुत्र मुद्रिता, विद्वत्समाजे प्रचलिता च। स्वयमेव ग्रन्थकारी व्याख्या मेनां वृत्तिपदेन व्यवहरति ( श्रीनागोजिभट्टीयायां वृत्तौ प्रथमः पादः ) । अयं वृत्तिकारः प्रसिद्धाद् वैयाकरणाद् न भिद्यत इति कृत्वा तस्य समय इतिवृत्तं च निश्चितमेवेति निर्धारयामः । अयं व्याकरणे धर्मशास्त्रे, अलंकारेऽपि बहून् ग्रन्थान् प्रणिनाय इति नातिरोहितं विदुषाम् । अस्यां वृत्तावप्यस्य शब्दशास्त्रज्ञानं सन्दृश्यते, अत एव भावागणेशमनुकुर्वन्न पि अयं 'कालिक' इत्येव प्रयुक्तवान्, न पुनः भावागणेशप्रयुक्तं कालीन शब्दम् (३।२५ वृत्तिद्रष्टव्या ) |