सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४७ ) भोजोऽयं रणरङ्गमलनामधेयः, यथाह स्वयमेव वृत्तिकार:- "तस्य धीरण- रङ्गमलनृपतेर्वाचो जयन्त्युज्ज्वलाः' (ग्रन्थारम्भे पञ्चमः श्लोको द्र० ) । ग्रन्थ- कारो व्याकरणे वैद्यके चापि व्याख्यानं रचयामासेति तद्वचनतो विज्ञायते ( 'शब्दानामनुशासनं विदधता' इति श्लोको द्रष्टव्यः, ग्रन्थादौ ) । योगसूत्रका- (रोऽहिपतिः पतञ्जलिरेव महाभाष्यादीनां चापि कर्तेत्यप्यस्यमतम् । तदिद- मनेनैत्र श्लोकेन व्यक्तं भवति । मतमिदं सत्यं नवेत्यन्यत्र प्रपञ्चितम् । अनेन 'न चैकचित्ततन्त्रमित्यादि वचनं ( ४ | १६ ) सूत्रत्वेन न स्वीकृत- मित्यवगन्तव्यम् । ग्रन्थकृता च परेषां दुर्व्याख्यानानां स्वरूपं ग्रन्थादौ 'दुर्बोधं यदतीव...' इत्यादिश्लोके प्रकटीकृतम्, स्वव्याख्यानं च प्रशंसितम् ( 'उत्सृज्य विस्तरमुदस्य विकल्पजालं फल्गु प्रकाशमवधार्य च सम्यगर्थान्' इत्यादि: ग्रन्थारम्भस्थ: श्लोको द्रष्टव्यः ) । अयं शिवस्य भगवतो भक्त इति प्रतिभाति । अत एव 'भूतनाथः स भूतये' ( ३|१ मङ्गलाचरण श्लोकः ) 'देहार्धयोगः शित्रयोः' (ग्रन्थादि- मङ्गलपद्यम् ) इति सश्रद्धं निर्दिशति । अनेन विन्ध्यवासिमतमुद्धृतम्, यथोक्तम्- अनेनैवाभिप्रायेण विन्ध्य- वासिनोक्तम् ‘सत्त्वतप्यत्वमेव पुरुषतप्यत्वम् इति' (४।२३ ) । अस्यां बृत्तौ मतान्तराण्यपि क्वचिदुल्लिखितानि दृश्यन्ते । ग्रन्थान्ते आत्मन आनन्दमयत्वमधिकृत्य अद्वैतिनां नैयायिकानामन्येषामपि च मतानि खण्डि- तानि । अन्यत्रापि स आह – “केचिद्धि चेतनामात्मनो धर्मम् इच्छन्ति" इति ( २।२० ) । - व्याख्यानेऽस्मिन् योगविद्यागताः सूक्ष्मा अर्था अपि क्त्रचिन्निर्दिष्टाः । दिङ्मात्रमुदाहियते — २।२३ सूत्रव्याख्याने द्रष्टृ-दृश्य-संयोगस्वरूपं यथा वर्णितम्, तेनास्य गभीरान्तर्दृष्टिर्व्यज्यते । विशोकास्वरूपविषयेऽयमाह- “ज्योतिःशब्देन सात्त्विकः प्रकाश उच्यते” ( १ | ३६ ) | सम्यगभिहित- मिदमित्यन्यत्र प्रपञ्चितम् | १ | २१ सूत्रगत-'संवेग-'पदस्यार्थोऽनेनैव विशदी- कृतः, नान्यैः। क्वचिञ्च सूत्राक्षरार्थविषये साधूकमनेन । १।३३ सूत्रे यानि सुखदुःखा- दीनि पदानि सन्ति, तैः शब्दैस्तद्वन्तः प्रतिपाद्यन्त इति स्पष्टमुक्तम् । दृष्टि- रियं समीचीनेति न संशयलेशोऽपि । व्याकरणे, धर्मशास्त्रे, शैवदर्शने, ज्योतिषे, वास्तुविद्यायां रणविद्ययां चास्य ग्रन्थाः प्रसिद्धाः । मिताक्षराकारो योगी विज्ञानेश्वरोऽस्य सभायामासीदिति