( ४६ ) भावागणेशकृतदीपिका-भावागणेशः खलु विज्ञानभिक्षुशिष्य इति प्रसिद्धिः । गुरोर्हष्टिमनुसृत्यानेन ग्रन्थः प्रणीत इति एतद्व्याख्यानतो- ऽवगम्यते । इयं दीपिका-व्याख्या अतिविस्तरा, स्पष्टा च विशदा च । योगदीपिका-पदेनेमां टीकां ग्रन्थकारः स्वयमेव व्यवहरति (द्र० पुष्पिका-भावा- गणेश - कृतायां योगदीपिकायां समाधि-पादः प्रथमः ) । अत्र योगवार्त्तिकगता दृष्टयोऽत्रलोक्यन्ते सर्वतः । आह च भावागणेशः ( व्याख्यारम्भे ) - 'भाष्ये परीक्षितो योऽर्थो वार्त्तिके गुरुभिः स्वयम् । संक्षिप्तः सिद्धवत् सोऽस्यां युक्तिषूक्ताधिका क्वचित् ॥' इति । दीपिकायामन्तरान्तरा भिक्षु-वार्त्तिकं च स्मृतम् । यथा - " इति वार्त्तिके गुरुचरणैः प्रसाधितं प्रपञ्चितं च” ( १।४); “अत्र प्रमात्रादिविभागे वार्त्तिक- कारिकाः” ( १ । ७ ) इति । योगवार्त्तिके भिक्षुर्यथा बभाषे, तथैवात्र संक्षेपेण भावावागणेश आहेति प्रायेणावलोक्यते । योगसूत्रटी कायामन्तराऽन्तरा मतान्तराणामुल्लेखोऽप्यस्ति । यथाह — 'विज्ञानवादं निरस्य दृष्टिसृष्टिवादं निरस्यति (४/१६ ) 'शुद्धतार्किकास्तु इमामपि ( निद्रां ) वृत्ति स्वप्नमध्ये प्रवेशयन्ति' ( १।१० ) इति । योग वद्यायां कानिचन विचारणीयानि मतान्यनेन भाषितानि, यथा- 'अचेतनं चेतनाधिष्ठितमेव प्रवर्तते इति नियमस्तु अस्माभिर्नेष्यते, परमेश्व- रस्य वैषम्यनैर्घृण्यापत्तेः' ( ३ | ३ ); 'अतो निःशेषाविद्याक्षयेऽपि जीवन्मुक्तानां प्रारब्धयोग उपपद्यते । अत्र प्रमाणं च वार्तिके' (२।१३ ) इति । अस्य कालस्तु विज्ञात एव । विज्ञानभिक्षोः कालः खीष्टीयचतुर्दशशतक- मध्यमभाग इति निश्चप्रचम् ( सांख्यदर्शन का इतिहास, पृ० ३०४ ), अतः तत्समकालभव एष इत्यपि सिद्धमेव । केचनास्य काल १५७५ ई० मन्यन्ते, तेषां मते भिक्षोः कालोऽप्यर्वाचीन एव । नायं पक्षो युक्त इति भिक्षुकालनिरूपणा- वसरेऽभिधास्यते । 'न च तत् सालम्बन मिति सूत्रं नानेन सूत्ररूपेण स्वीकृतमिति दृश्यते । एतत्कृता ग्रन्थाः-तत्त्वयाथार्थ्यदीपनम् ( तत्त्वसमासव्याख्यानभूतम् ) - व्याख्यानमिदं पञ्चशिख व्याख्यावलम्बनेन कृतमिति स्वयमेवाह भावागणेशो ग्रन्थादौ ( आलम्ब्य व्याख्यां पञ्चशिखस्य च ) । व्याख्यानेऽस्मिन्नैकपुराणवच- नानि स्मृतानि, पञ्चशिखवाक्यान्यपि संगृहीतानि ( पृ० ७२, ८१, ८२ ) । 'भोजराजकृत भोजवृत्तिः - वृत्तिरियं प्रसिद्धा प्रचलिता सुविशदा योगवि- द्योपकारिणी च । राजमार्तण्डपदवाच्येयमिति विज्ञायते । ग्रन्थपुष्पिकायामपि , घारेश्वर-भोजराज-विरचितायां राजमार्तण्डाभिधानायाम्' इत्येव वाक्यमस्ति ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/५९
दिखावट