सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अस्यां वृत्तौ भोजवृत्तिर्भावागणेशवृत्तिश्च बहुत्रानुकृता । (द्र० १/४६; २१५, २६, २११२, ३२५ ) । क्वचिच्च, केचिदित्युक्त्वा गणेशमतं संगृहीतम् (४/३, ४/५ ) । कण्ठतोऽपि भोजराजमतं निर्दिष्टं स्वीकृतं च ( ४ | ३ ) वाचस्पतिमिश्रवचनमपि क्वचित् परामृष्टम् ( २/३ ४ १७, ) । बहुत्र व्यास- भाष्यगतवचांस्यविकलरूपेण अवयुत्यनुवादेन च लक्षितानि ( ११४, ११७, १२४, २१३, ४१०, ४२१, ४२३) । वृत्तिकृतेदमनि प्रत्यवादि यत् २१६ सूत्रं तु परमार्थतो भाष्यमेव वाचस्पतिदृष्ट्या - "ते प्रतिप्रसबद्देयाः सूक्ष्मा इति तु भाष्यमेव न सूत्रमिति वाचस्पतिस्वरसः" । अस्यां वृत्तौ तत्त्ववैशारद्याः प्रभावः सर्वत्र देदीप्यते । भोजवत्तिरपि बहुत्रानुसृता । अनेन 'न च तदि'ति सूत्रं ( ३।२०) न सूत्रत्वेनाभ्युपगतमिति ज्ञेयम् । क्वचित् सूत्रार्थविषये विशिष्टं कथनमुपलभ्यते । यथा – चतुर्व्यूहपदे व्यूह पदस्य कीदृशं सार्थक्यमित्यत्राह- "उपकरणसंग्रहाय सर्वत्र व्यूहपदं राश्ययकम्” इति ( २ । १५ ) । परिकर्मण ईदृशं लक्षणं प्रदत्तम्-"एकाग्रताहेतुश्चित्तसंस्कारः परिकर्म” इति । अनेन चित्तवृत्तयो द्रव्यत्वेनाभ्युपगताः, यथोक्तम्–“वृत्तयो- ऽपि हि दीपशिखा इव द्रव्यरूपाः मञ्जुराश्चित्तपरिणामा" इति । क्वचिदनेन परमतं खण्डितम् (द्र० ४ | ३४ वृत्तिः ) । वैक्रमसंवत् १७७२ काले जयपुराधीशोऽश्वमेधं चकार, तत्रायमाहूतोऽपि न गतवान् इत्यहो अस्य गाम्भीर्यम् । शृङ्गवेरपुराधीशो रामचन्द्रोऽस्य पालक आसीदिति विज्ञायते तद्ग्रन्थ परिशीलनेन । अनन्तदेव ( पण्डित )कृत- चन्द्रिकाव्याख्या- व्याख्येयं प्रकाशिता । इय- मतिसंक्षिप्ता । नास्यां योगविद्यायाः सूक्ष्माणि तथ्यानि विवृतानि । २।४७ सूत्रे पाठभेदोऽनेन दर्शितः, यथाह सः – “अनन्त-आनन्त्येति पाठ- द्वयेऽर्थद्वयम् । प्रथमपाठे शेषसमापत्तिः, द्वितीय आकाशसमापत्तिरि”ति । तथैव ४ | ३३ सूत्रपाठ एतन्मते 'परिणामोऽपरान्तनिर्ग्राह्यः क्रमः' इति प्रतिभाति । अत्यन्तमव मर्वाक्कालिकोऽयम् । सदाशिवेन्द्रसरस्वतीकृत-योगसुधाकरव्याख्या—मुद्रितेयं वृत्तिः । इयमपि व्याख्या संक्षिप्ता, अत्र च क्वविद् योगविद्या-विषयकाणि सूक्ष्माणि तथ्यानि विवृतानि (द्र. ११३६ व्याख्या) । मणिप्रभाटीकाप्रभावोऽस्या उपरि देदीप्यत एव । अस्यां वृत्तौ योगियाज्ञवल्क्यग्रन्थः स्मृतो बहुधा ( २ । ३२; ३ । १ ) | योगवासिष्ठोऽपि सकृत् ( २ | ३५ ) |१|२३ सूत्रव्याख्याने 'तप्यं सत्त्वं' बुद्धि-