( ३२ ) रेव महाभाष्यस्य निदानसूत्रास्यपि प्रणेता । एतेनापि प्रतीयते यद् निदान- सूत्रकार-योगसूत्र कारयोरैक्यं समाजे प्रविज्ञातमासीदिति । नामसाम्यात् पुनः महाभाष्यकारः पतञ्जलिरेव योगसूत्रादीनामपि कर्तेति प्रवादो जातः । योगसूत्रे यादृशी भाषा प्रयुक्ता, न सा आरण्यकोपनिषद्गताया भाषाया भिद्यते, अतो भाषामेदप्रयुक्तकर्तृमेदरूपः तर्कोऽत्र न युक्तः । सामवेदो योगसूत्रं च–यदाऽस्माभिरुच्यते यत् सामशाखाविशेषकारः पतञ्जलिरेव योगसूत्रकारः, तदा त्रिधाऽस्माकं युक्तयो वेदितव्याः । प्रथमतोऽस्माकं प्रतिज्ञा यद् योगविद्या सामवेदेन सह सामान्यतः संबद्धा । द्वितीयाः—ईश्वरप्रणिधानप्रतिपादकः पातञ्जलयोगः ( ईश्वरप्रणिधानमार्गाद् भिन्नोऽपि योगमार्गोऽस्ति, सोऽपि श्रौतः, न स मार्गः पतञ्जलिना खण्डित इति वेदितव्यम् ) विशेषतः सामवेदेन संबद्धः । तृतीयाः- सामवेदीय ग्रन्थेषु पातञ्जलयोगदर्शनविचारसदृशानि मतान्यपि दृश्यन्ते ( शब्दतोऽर्थतश्च ) । अथात्र युक्तय उपस्थाप्यन्ते, यासां समूहेनास्मदभिमतेष्टसिद्धिर्भवत्येव । तथा हि— - १ – ईश्वरप्रणिधानसूत्रेण भक्तिसाधनस्य महत्तां ( द्र० योगभाष्यम् १।२३ ) दर्शयति पतञ्जलिः । असकृच्च ( १ | २६, २१, २।४५ ) प्रणि धानमिदमुक्तम् । अतोऽस्मिन् भक्तिमार्गे पतञ्जलिर्बद्धादर आसीदित्यनुमीयते । साच भक्तिः विशेषेण प्रतिपादिता सामवेदे । नारद-शाण्डिल्यादयः भक्त्याचार्याः सामवेदप्रवक्तार इति स्मर्यंते, अतश्च योगसूत्रं सामवेदसंबद्ध- मिति प्रतिभाति । २ - भक्तियोगाचार्या नारदादयो योगविद्याचार्या इत्यपि दृश्यते । नारदस्य योगविद्यावेत्तृत्वमसकृत् शान्तिपर्वणि उक्तम् । एतत्कृताः सांख्य- योगसंबद्धाः प्रश्ना उत्तराणि च महाभारते ( आदि० ७५ | ७-८; शान्ति० ३२६-३३१ अ०; २७५ अ०; २८७ अ० ) दृश्यन्ते । अन्येषां भक्यियोगा- चार्याणां विषयेऽपि इत्थमेव दृश्यते । ३ – हिरण्यगर्भयोगविद्याविवरणम् अहिबुध्न्य संहितायां दृश्यते । सेयं संहिता वैष्णवी, वैष्णवीया भक्तिश्च पुनः सामवेदीया । अतः प्रतीयते हिरण्य- ( ११८ | १ ) | आहात्र टोकाकृत् शंकर:- "अध्यात्मं भवतीति अध्यात्मिकाः, छान्द ह्रस्वत्वम् । तेहि चित्तसमाधान हेतुत्वाद् योगाः न्यायसंहितान् उपपत्तिसमन्वितान्”। अर्वाचीनकाले न्यायदृष्टिरियं प्रायेण नष्टा, अत एव वैष्णवशैवप्रत्यभिज्ञादि-संप्रदाया योगानुवर्तिनोऽपि न सम्यग्दशिनः ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/४५
दिखावट