( ३१ ) राधाकृष्णन् महोदय ( 1. P. ग्रन्थे ) अन्ये च आयुर्वेदविदो व्याकरणशा दर्शन विचारकाः बहुविचारितवन्तः । साधक-बाधकदृष्ट्या सर्वे विचारा अस्माभिरवधारिताः । अत्रास्माकमयं निर्णयो यत् न खलु योगसूत्रकारः पतञ्जलिर्महाभाष्यकारो वा, चरक व्याख्याता वा, लोहशास्त्रकारो वा । अत्र रामभद्र दीक्षित-भोजराज-चक्रपाणि-प्रभृतीनां मतमज्ञान विजू म्भितमेत्र । शेष- नागः पतञ्जलिनामा, स च महाभाष्यादीनि प्रणिनायेति तर्कासहं वचः । न खल्वेतादृशोऽवतारवादो वैदिकः, न वाऽयं न्यायेन संगमनीयः, नवा योग- शास्त्रानुसारीदं कथनम् । सपनागनामसु पतञ्जलि-नाम पठ्यते पुराणे, ततश्च भ्रमोऽयं संजात इति प्रतिभाति । महाभाष्यकारस्य किमपि नागवाचकमुपनाम आसीत् ततोऽपि 'शेषनागावतार: पतञ्जलिः' इति मतमाविर्भूतं भ्रान्त्येति केचित् । नामसाम्यघटितानि भ्रमपूर्णानि मतान्यस्मद्देशे सर्वत्रोपलभ्यन्ते– इति न विस्मरणीयम् । वस्तुतस्तु योगसूत्रकारः पतञ्जलिरार्षकलभवः पुरुषः । उपकादिगणे ( अष्टा० २।४।६६) पतञ्जलशब्दः पठयते । तस्यापत्यं पतञ्जलिरिति संमान्यते । आङ्गिरस: पतञ्जलिर्मत्स्यपुराणे ( गोत्रप्रवरप्रकरणे ) स्मृतः ( १६६ | २५ ) । पतञ्जलिनाम सामशाखाप्रवक्तृनामसु स्मयते, अयमेव योगसूत्रकार इत्यास्मा- कीना दृष्टिः । विस्तरस्तु 'योगविद्या' - ग्रन्थे द्रष्टव्यः । योगसूत्रप्रणेता पतञ्जलिः कः- यतो हि महाभाष्यकारादयो न योगसूत्रकारः तर्हि पारिशेष्यात् निदानसूत्रप्रवक्ता पातञ्जलशाखाप्रवक्ता वा पतञ्जलियोंग- सूत्रकार इत्यभ्युपेयमेव । एतौ कालदृष्टयाऽतिप्राचीनौ, योगसूत्रमपि सर्वदर्शन- प्राग्भावि ( यथोक्तमुपरिष्टात् ), अत एतौ योगसूत्रप्रणेतारौ भवितुमर्हतः । तत्र निदानसूत्रकार एत्र योगसूत्रकार इत्यत्र किमपि लिङ्गं न दृश्यते । शाखाकारं पतञ्जलिमभिलक्ष्य वायौ (६१।४३) ब्रह्माण्डपुराणे ( १ | ३५/४६) च 'बुद्धिमान्' इति विशेषणं प्रयुक्तम् अतो गम्यते शाखाकार एव युक्तिपूर्ण- दर्शनशास्त्रस्यापि प्रणेतेति । कश्चित् प्रवादोऽपि वर्तते- योगाचार्य: पतञ्जलि- १. अत्र माध्यन्दिनशतपथगत- पतञ्चल शब्दोऽपि द्रष्टव्यः ( १४ | ६ | ३१, १४।६।७।१ ) । काण्वबृहदारण्यकेऽप्ययं प्रसङ्गोऽस्ति ( ३।३।१; ३।७।१) । केचिदत्र पतञ्जल-पाठोऽस्तीति प्रदर्शयति एवं सत्यार्षकालिकोऽयं पतञ्जलिरिति दृढ सिध्यति । २. प्राचीनकाले योगविद्या सन्यायाऽभ्यसनीया आसोदिति विज्ञायते, यथाहा- पस्तम्बः-- -"अध्यात्मिकान् योगाननुतिष्ठेत् न्यायसंहितान् अनैष्वारिकान्” इति
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/४४
दिखावट