पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३० ) अन्ये प्राहुः— हिरण्यगर्भनामा कश्चिदृषिरासीत् तेनोपदिष्टमादौ योग- विद्येति । मतमिदमितिहासपुराणतो न सिध्यति । , एषु मतेषु विचार्यमाणेषु इदं प्रतिभाति-यतो हि योगगम्याश्च सर्वे मूलभूता अर्थाः सांखीया एव, अतः अविनाभाविनौ सांखयोगौ। सांखपज्ञानं च नारायणा- श्रितमिति (शान्ति० ३०१।११४) कृत्वा योगविद्यायाः मूलभूतः प्रकाशक इह सर्गे नारायणो हिरण्यगर्भ एव । ऋषिपरम्परागता सा विद्या परमर्षिणा कपिलेन सोपपत्तिका प्रोकेति कृत्वा मनुजसमाजे योगविद्याप्रवर्तनं विशेषतः कपिलेन कृत- मिति कथनं समीचीनमेव | तत्त्वतस्तु हिरण्यगर्भाश्रियं विद्येति कथनं संगच्छते; निर्गुणेश्वरः क्लेशाद्यपरामृष्टोऽपि योगविद्यानिधानमिति स्वीकार्यमेव । विद्यामाश्रित्यैव हिरण्यगर्भयोगविद्या विवरणपरा ग्रन्थाः केचन प्रणीता योगि भिरित्यपि निश्चीयते । यदा पुनः बहुसंवादविभक्तेयं विद्या अतिविस्तीर्णा, दुरवधारणा च जाता तदा विद्यारक्षार्थम् अमितधीः कारुणिकः पतञ्जलि- र्योगविद्यामिमां न्यायपूर्णैः सूत्रैर्जप्रन्थ- इत्यही अस्य पुण्यमहिमा । •पतञ्जलिनामानः शास्त्रकाराः कोऽयं पतञ्जलिरिति विचार्यमाणे नैक- शास्त्रकारा बहवः पतञ्जलयो दृश्यन्ते । तथा हि- १ - सामवेदीयपातञ्जलशाखा- प्रवक्ता ( वैदिक वाङ्मय का इतिहास, भाग १, पृ० ३१२ ) । २ – सामवेदीयनिदानसूत्रप्रवक्ता । ३ – योगसूत्रकारः । ४ - महाभाष्यकारः । ५- चरकसंहितायाः प्रवक्ता, चरकव्याख्याता, चरकवार्तिककारो वा । ६- ३ | ४४ व्यासभाष्यवृतद्रव्यलक्षणकारः । ७- - युक्ति दीपिकाघृतपतञ्जलिनामाचार्यः । ८ – लोहशास्त्रकारः ( यथाह तत्त्वसंग्रह टीकातत्त्वचन्द्रिकायां शिवदासः, पृ० ६०३ बंगभाषासंस्क० ) । ६ – रसशास्त्रीय ग्रन्थविशेषकार: ( अयमेव लोहशास्त्रकार इति केचित् ) | १० – वातस्कन्धा दिवैद्यकग्रन्थकार: (वैद्यकवृत्तान्त, पृ १९४) । अयमपि पूर्वोक्त एवेति केचन । अस्मत्पक्षः— पतञ्ज लिविषये हेमराजशर्मा ( काश्यपसंहितोपोद्धाते ), गुरुपदहालदार: ( वैद्यकवृत्तान्त-वृद्धत्रयी-व्याकरणदर्शनेर-इतिहास-प्रन्थेषु ) युधिष्ठिरो मीमांसकः ( व्याकरण शास्त्र का इतिहास-ग्रन्थे ), उदयवीरशास्त्री ( सांख्यदर्शन का इतिहास ग्रन्थे ), सुरेन्द्रनाथदासगुप्तः ( H. I. P. ग्रन्थे ),