पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३३ ) गर्भयोगविद्याऽपि सामसंबद्धासीत् । सा च विद्या पातञ्जलयोगोपजीव्यभूतेति प्रागुक्तम् । ४—ईश्वरवाचक-प्रणव-जपस्य महिमाऽपि ( चित्तस्थैर्याय ) अत्र प्रति पादितः, तदिदं प्रतिपादनमप्यस्य शास्त्रस्य सामवेदसंबद्धत्वं दर्शयति । योग- शास्त्रविहितजपोऽपि स्तोत्रविशेष एव, स्तोत्रं पुनः साम 'सामभिः स्तुवन्ती' ति कथनात् ( निरुक्तम् १३३ ) | मुण्डकादिषु प्रणवो न प्राजापत्यः, सामवेदी- यार्षेय ब्राह्मणे तु प्राजापत्योऽयमिति ( १।१ ) । दृष्टिरियं योगसूत्रेऽप्यस्ति । ५ - चित्तसमाधये सामगानस्योपयोगिता योगिसम्मता ( द्र० योगविद् याज्ञवल्क्य कृतस्मृतिः, ३१११२ ) अतः पातञ्जलयोगविद्या यदि सामसंबद्धा- सीत् तर्हि न विप्रतिपत्तेरवसरः कश्चित् । ६–पातञ्जलयोगप्रमाणभूत आचार्यों वार्षगण्यः कस्याश्चित् सामशाखायाः प्रवक्तेति दृश्यते ( वै. वा. इ. पृ. ३२०) । योगाचार्यों गौतमगार्ग्यावपि सामशाखाकाराविति कथयितुं शक्यते, इत्यतोऽपीदं शास्त्रं सामसंबद्ध मिति गम्यते । सामशाखाकारा अन्ये हिरण्यनाभादयः आचार्याश्च महायोगिन आसन्निति पुराणेषु बहुधोक्तम् । ७ – सामप्रवक्ता जैमिनियोंगी आसीदित्यस्माभिः प्राग् (पृ. १३ ) उक्तम् । अतो योगशास्त्रमपि सामवेदे प्रपञ्चतं स्यादिति मन्यामहे । सच सामवेदः पुराऽपि विश्वावसुगन्धर्व संभृत इति वायौ ( ६५।२६) ब्रह्माण्डे ( २१११२५ ) चोकम् । विश्वावसुरयं सांख्ययोगविदासीदिति शान्तिपर्वतो विज्ञायते ( ३१८२६-८४) । अतः पातञ्जलयोगः सामशाखाविशेषे विवृत इति कथनं संगतमेव भवति । ब्रह्मविद्यया तत्त्वज्ञानेन च सह साम्नः संबन्धः प्राग् दर्शित एव (पृ. १३) । ८- बृ. यो. याज्ञ० (८/१६-२१) प्रतिपादितः प्राणायामः पातञ्जलसूत्रा- मुसारी। ग्रन्थेऽस्मिन् प्रणव उद्गीथरूपेणोक्तः ( २ । ११ ) | २८५-८६ इत्यत्र दृष्टिरियं प्रपञ्चिता । सा च दृष्टिः सामवेदीयच्छान्दोग्यारम्भेऽभ्युपगता, अतोऽपि सामसंबद्धा पातञ्जलयोगविद्या । हिरण्यगर्भयोगीया प्रणवसाधनाप्युलिखितात्र (२।६६ )। योगसूत्रं सामशाखा च - सामवेदेन ( सामवेद-शाखाविशेषेण वा ) सह पातञ्जलयोगविद्याया नेदिष्ठ: संबन्ध आसीदिति सामान्यत उक्तम् । क्वचिद् विचारसाम्यमप्यवलोक्यते, तथाहि—सामवेदीय जैमिनीयोपनिषद्द्ब्राह्मणे 'प्रतिबोधविदितं मतम्' (४/१०/२) इत्युक्तम् । तदिदं मतं पातञ्जल- योगे 'बुद्धेः प्रतिसंवेदी पुरुष' इति वाक्येन प्रदशितम् । अत्र शब्दसाम्यमपि