( २३ ) यदि पुरुषो भोक्ता स्यात् तर्हि स विकारी स्यादिति केचन लपन्ति । एते खलु भोगस्वरूपमज्ञात्वैव योगपक्षं दूषयन्ति । भोगो नाम सत्त्व पुरुषयोरत्यन्ता- संकीर्णयोः प्रत्ययाविशेषः, दृश्यस्योपलब्धिर्वा; यः खलु अस्य ज्ञानस्याविकारी द्रष्टा स एव पुरुषो भोक्तेति, अतः स न विकारी भवितुमर्हति । ( ५ ) योगसम्मतः सत्कार्यवादश्चाज्ञैर्बहुधा दूषितः । सांख्ययोगीया दृष्टिः खलु ३।१३ व्यासभाष्ये विवृता, तामज्ञात्वैव- 'यदेव दधि तत् क्षीरं यत् क्षीरं तद् दधीति च । वदता रुद्रिलेनैव ख्यापिता विन्ध्यवासिता ॥' इत्युक्तम्' । अयं दृष्टान्तो न योगपक्षं खण्डयितुं समर्थ इति वाचस्पतिर्दर्शित- वान् ( द्र० ३ | १३ तत्त्ववैशारदी ) । ( ६ ) हगूदर्शनशक्त्योरेकात्मता याऽनुभूयते स सम्बन्धश्च पुरुषप्रकृत्योः भोक्तृभोग्य योर्योग्यतालक्षण इति । आइ च पतञ्जलिः – “दृग्दर्शनशक्त्योरेका- त्मतेवास्मिता” इति ( २१६ ) । अत्राह वाचस्पतिः- “हग्दर्शनयोरिति वक्तव्ये तयोर्भोक्तृभोग्ययोर्योग्यतालक्षणं सम्बन्धं दर्शयितुं शक्तिग्रहणमिति । यदि नाम योग्यतालक्षणः संबन्धः स्यात् तर्हि स शाश्वतिकः स्यात् । एवमनिर्मोक्षप्रसंग 'इति केचिद् वदन्ति । आह च शंकरः- “योग्यतानिमित्ते च संबन्धे योग्यता- नुच्छेदादू अनिर्मोक्षप्रसङ्गः" इति ( शारीरक २।२।७ ) । अयमाक्षेपोऽसमीचीनः, यतो हि विद्याविद्ये च क्षयोदयशालिवृत्तिरूपेणान्तः- करणे तिष्ठतः । योगाभ्यासेन अविद्या क्षीणा भवति, विवेकख्यातिश्च विवर्धमाना भवति । ततश्च तस्याः ख्यातेरपि निरोधो भवति । यतो हि वृत्तिः क्षयोदय- शालिनी, अतः संयोगोऽपि सविप्लवः । या च वृत्तेर्लयावस्था सेव स्वरूपा- बस्थानं द्रष्टुः । चित्तं खलु संस्कारप्रत्ययधर्मकम् । उभावेतौ धर्मों भङ्गुरौ, अतश्च चित्तं स्वकारणे लीनं भवितुमर्हति । निरोधसमाध्यभ्यासाद् यदा चित्तस्य पुनरुत्थानहीनो लयो भवति, तदा पुरुषस्य कैवल्यम् । (७) जैनसंप्रदायेऽपि पातञ्जलयोगविद्यां प्रति केचन आक्षेपाः कृताः (द्र० यशोविजयोपाध्यायकृता योगसूत्रवृत्तिः ) । बुद्धचरितकाव्ये ( द्वादशसमें ) अश्वघोषेणापि सांख्ययोगविद्यायां दोषाः प्रदर्शिताः । बोधिचर्यावतारगतनवम- परिच्छेदेऽपि ( तट्टीकायां च ) सांख्ययोगपक्षो दूषितः । न्यायभाष्ये ( ११२१६ ) योगभाष्यगतमेकं मतम् ( तदेतत् त्रैलोक्यं व्यक्तरपैति" “३।१३) दूषितम्, १. द्र० तत्त्वसंग्रह पत्रिका, पु० २२ । ELENCO
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/३६
दिखावट