( २२ ) स्वसिद्धान्तरूपेण यत् स्वीकृतम् – 'अतश्चाविद्या कृतोऽयं तप्यतापकभावो नपार- मार्थिकः' (शारीरक २|२|१०) इति, तत् तु सांख्य दर्शनानुगृहीतमेव । तदेतद् योगभाष्ये (२११७) विवृतम्, अतः प्रतीयते यत् शंकरेण न योगविद्याऽव- बुद्धेति । सत्त्वतप्यत्वमेव पुरुषतप्यत्वमिति सांख्याचार्याः, ( द्र० भोजवृत्ति ४|२३ गतं विन्ध्यवासिमतम् ) अतो न कश्चिद् दोषः सांख्यपक्षे वर्तते । ( २ ) तथैव २|२|१६ शारीरकभाष्ये सांख्ययोगसंमतपुरुषार्थ विषयेऽपि शंकरेण दोषा आविष्कृताः। शंकरवाक्यतः प्रतीयते यत् सोऽनधीती योगशास्त्रे आसीत् । यतो हि भोगापवर्गों बुद्धिकृतौ द्वावर्थों पुरुषे समारोप्येते, दृश्यं च भोगापवर्गार्थम्, पुरुषार्थ एव दृश्यस्यात्मा, स्व-पर-रूपख्यापनायैव प्रधान- प्रवृत्तिरतः शंकरोतानि दूषणानि खपुष्पायमाणानीति | (३) योगशास्त्रसम्मतानां महदादीनामवैदिकत्वं प्रतिगदयन्ति बहव उत्तरमीमांसाव्याख्यातारः ( द्र० २ | १ | २ ब्र० सू० ) । सेयं दृष्टिर्न संगता, प्रधानादीनां श्रुतिषु स्पष्टमुपलब्धेः । काठके, मुण्डके श्वेताश्वतरे, मैत्रायण्युप- निषदि, प्रश्नोपनिषदि, नारायणोपनिषदि, कौषीतक्युपनिषदि, गर्भोपनिषदि च शब्दतोऽर्थतश्च सांख्ययोगीयाः पदार्था वर्णिता दृश्यन्ते । ईश-केनादिष्वपि अर्थतः सांख्यीया दृष्टिर्देदीप्यते–'ईशावास्यमिदं सर्वमिति', 'संभूति च विनाशं चेति', 'प्रतिबोधविदितं मतमिति' च । या चोपासना छान्दोग्येऽस्ति सा योगानुगतैव । आत्मविषये याश्चोपरत्तयो दर्शिता बृहदारण्यके, ताः सर्वा अपि सांख्यीयं तत्त्व- दर्शनमेव ज्ञापयन्ति, न मायावादमारम्भवादं वा । शंकरादिभ्यो वेदान्तभाष्य- कारादिभ्यो ये प्राचीना आचार्या हारीत-पराशर-देवलादयः, ते उपनिषद्गतैः शब्दैः सांख्ययोगसिद्धानर्थान् एव बुबुधिरे, न शंकरादि-सम्मतानर्थान्' । मनु- याज्ञवल्क्यादयोऽपि वेदार्थस्मरणं कृत्वा यानि मोक्षविद्यासम्बन्धीनि मतान्यु- छवन्तः, तेष्वपि सर्वत्र सांख्ययोगानुसारिणी दृष्टिरेवावलोक्यते । अत एव शंकरादयः स्वदृष्ट्या अतात्त्विकदर्शनयुक्तया वेदार्थं व्याचक्षाणाः प्रायेण न वेदमतानि तर्कत उपपादयन्ति, न वा तेषु कार्यकारणपरम्परां प्रदर्शयन्ति; केवलं काशकुशावलम्बनेन वेदार्थान् कुर्वन्ति, न च तानर्थान् न्यायेन संगमयन्ति । न हि व्याख्यान कौशलं नाम किमपि शास्त्रमस्ति - इति सांख्ययोगाचार्याणां दर्शनम् । (४) योगे खलु 'पुरुषः भोक्ता' इत्युच्यते- 'अपरिणामिनी हि भोक्तृ- शक्तिः' इत्यादि पञ्चशिखवचनमत्र द्रष्टव्यम् (द्र० योगभाष्यम् २(२०; ४/२२) । १. अस्य मतस्य प्रमाणोकरणं योगविद्या-प्रन्ये द्रष्टव्यम् ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/३५
दिखावट