( २१ ) अवस्थानदर्शनाद्, बहुबुद्धिदर्शनाच् च सर्वतस्तुल्या बहवः पुरुषा इति स्वीकार्यम्; अखण्डेकरूपं चैतन्यं न बहुबुद्धिजनकं स्यात् । ८. निरोधसमाध्यवस्थायां चित्तेन्द्रि- याणां प्रविलयात्, सविप्लवे निरोधे च तेषां पुनर्व्यततातिदर्शनात् सद्रूप- मव्यक्तम् । सिद्धे च परमार्थेऽव्यक्तता- नतिक्रान्तेरसद्रूपेव प्रकृतिः, विद्यते भावो नाभावो विद्यते सतः' इति 'नासतो नियमात् । सर्वोपादानं चाव्यक्तम्, त्रैगुणिकत्वात् सर्वस्य । ६. परमतत्त्वं सगुणनिर्गुणात्मकं न भवितुमर्हति, निर्विकारं वस्तु विकार बीजमिति न न्यायेन संगमनीयम् । एव गृहीतपशुभाव इति केचन शैवागमिनश्च । जगदुपादानभूता असद्रूपा प्रकृतिरिति केचित् । तथैव केचिज् जगन्मूलं शून्यमाहुः । अपरे च निर- न्वयमेवेदं सर्वमिति । अपरे पुनः नास्ति कारणे कार्यमव्यक्तभावेनेति । अपरिणामिनस्तत्त्वाद् विकार- शीलं जगज्जायत इति केचना- गमिनः । सगुणं निर्गुणं च युगपत् परमतत्त्वमिति शैवादयः । १०. • सर्वमिदं कारण कार्यनियमानु- सारेण प्रवर्तते, अहेतुकस्वातन्त्र्यशक्ति नाम न कश्चित् पदार्थों भवितुमर्हति । कर्मानादि, कर्मसंस्कारश्च । प्रजापते- रैश्वर्यंसंस्काराद् ब्रह्माण्डाभिव्यक्तौ सत्यां पूर्वसंस्कारानुसारेण स्वतः पुरुषार्थाचरण- क्रिया प्रवर्तते जीवानाम् । दुःखादि- दर्शनाद् यदि स्वेच्छया कश्चिद् आवृत्त- चक्षुः स्यात्, तर्हि आत्मज्ञानाभ्यासेन यथाविधि कैवल्यभाक स्यात् न खलु कैवल्यमीश्वरेच्छयैव लभ्यम् । १३. सांख्ययोगं प्रति आक्षेपाः, तेषां समाधानं च - सांख्ययोगं प्रति अज्ञतामूला आक्षेपाः आचार्यैर्बहुधा कृताः, येषां समाधानमन्यत्र कृतमस्माभिः। दिङ्मात्रमिहोदाह्रियते- स्वतन्त्रेच्छः खलु परमेश्वरः । कालत एव जीवानां मुक्तिभवति । ईश्वरेच्छयैव गुरुकृपयैव वा कैवल्यं भवतीत्यन्ये । (१) योगप्रामाण्यवादी ( द्र० शारीरक ११३१३३ ) शंकरो योगशास्त्र- सिद्धं तप्यतापकभावं महताडम्बरेण प्रत्याख्यानाय प्रायतिष्ट । परन्तु शंकरेण
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/३४
दिखावट