पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २० ) सार्वज्य- सर्वशक्तियुतः अविद्यायुक पुरुष- विशेषः खलु सृष्टिकर्ता । विवेकबलेन प्रलयानन्तरं स कैवल्यमधिगच्छति, अतः ईश्वरताधर्मोऽनित्यः । न खलु कश्चित् नित्यः ब्रह्माण्डसर्जकोऽस्ति । , ३. यतो हि ब्रह्माण्डं व्यक्तमतस्तत् परिच्छिन्नम्, अतोऽसंख्येयानि ब्रह्माण्डानि, मूलकारणस्यापरिमेयत्वात् । अत एव अनेक ब्रह्माण्डेषु एकस्य ईश्वरस्य नेशनशक्तिः प्रवर्तते, अव्यक्तान्तरितत्वाद् ब्रह्माण्डानाम् । ४. सृष्टिकर्तुः प्रजापतेर्ग्राह्यभूतं भूताद्यभिमानमेव जगदुपादानं साक्षात्, इति नैयायिकाः । तन्मनोगतः संकल्पः ऐश्वर्यसंस्कारश्च निमित्तं जगदभिव्यक्तेः, अत एव 'यथो- नाभिः सृजते ग्रह्णते चेत्यादि श्रुतिराह (मुण्डक १।१।७ ) । ५. व्यवहारत ऐशान्तःकरणस्य जग- न्मूलत्वेऽपि तत्त्वतः तदन्तःकरणमपि त्रैगुणिकमिति कृत्वा प्रधानप्रकृतिकं जग दिति तात्त्विकी दृष्टिः सिध्यति । मूलं निमित्तं तु पुरुषो व्यक्तावस्थायाः । गौणानि निमित्तान्यपि सन्ति भूततन्माना- दीनाम् । रामानुजादयः । वेदान्तवादिनोऽपि केचनेत्थं वदन्ति । ६. परमार्थसिद्धौ दैशिकी कालिकी वा प्रतीतिर्न भवेत् । अत एव चिद्रूप- तायां न सर्वव्यापिताभावः । ततश्च केवली पुरुषो न बैकुण्ठादिलोकस्थो भवितु- महीत । कैवल्यपदं न देशकालव्याप्ति- युतम् तच्च लोकातीतम् । कैवल्या- वस्थायां च न देहादयः सन्ति । 1 एक ईश्वरोऽनेकब्रह्माण्डेषु आ- धिपत्यं करोति, अत एव सः 'अनन्त- कोटिब्रह्माण्डनायकः' इत्युच्यते, इति वैष्णवादयः । ईश्वरः खलु निमित्तकारणम् जगदुपादनभूतमैश चित्तं (मा- यालक्षणे स्वचित्ते-इत्य द्वैतिभि- रुच्यते ) न पुनर्विश्लेषयोग्यमिति ईश्वर एव जगदुपादानमिति केचन वेदान्तनिष्ठाः अप्राकृतेषु वैकुण्ठादिस्थानेषु जीवानां स्थितिर्भवति परमार्थ- सिद्धौ इति केचन भक्ताः । सिद्ध- देह-अप्राकृतदेहवन्तश्च तत्र राज- न्ते नित्यम्, इत्यस्ति मतं वैष्णवा- दिषु 'सन्त' परम्परासु च । ७. स्वरूपेणावस्थानकाले देशकाल- एकमेव ब्रह्म बहुजीवभाव- व्यापित्वाभावाद्, बुद्धिनिरोघे सति ज्ञरूपेण । मापन्नं नैकशरीरेषु वर्तते । शिव