सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४३) विरुद्धहेत्वाभासस्योदाहरणमेतदिति कृत्वा । अभ्यात्मविद्यासम्मतदृष्टिम वि ज्ञायैवेमानि सर्वाणि दूषणानि प्रदत्तानीति अस्माकं पक्षः । सोऽयं विषयो 'योगविद्या' ग्रन्थे विस्तरेण विवृत इत्युरम्यते । सांख्ययोगविद्याह्रासकारणम् – सन्ति बहवो हेतवः, यतो शनैः शनैः विद्येयं ह्रासं गता। आन्वीक्षिकी प्रधानाया अस्या विद्याया विकृतिक्रमानुसारेण दर्शनान्तराणि यथाकालं प्रजातानीति विज्ञायते । अत एव सर्वाणि प्रस्थानानि मूलतः सांख्ययोगाश्रितानीत्यस्माकं मतम् । यथा यथाऽर्वाग्दर्शिभिरसंकीर्ण- तत्त्वदर्शनं विपर्यस्तरूपेण ज्ञातम्, तथा तथा एकैकमज्ञानमाश्रित्य अर्वाक्- कालिकं नवीनं दर्शनमुत्पन्नम् । मनुरपि वेदबाह्यानां तमोनिष्ठानां कुदृष्टी- नामर्वाककालिकत्वं कथितवान् ( १०/६५-६६) । अध्यात्मविद्या-विपर्यय- कारका हेतव इमे- १ – पार्थिवान्न जलादिगुणाद्यपकर्षः, ततश्चाहाराशुद्धि प्राबल्यम्, ततश्च सत्त्वशुद्धेरपि ह्रासः । २ – शरीरधातुशक्तीनामपकर्षः, येनैकाग्रथहेतुभूतशारीरस्थैर्यापकर्षः, ततश्च समाहितचित्तताया ह्रासः । ३ – मानसबलापकर्षः, ततश्च वैराग्यादिसिद्धौ अशक्तिः, परिग्रहादिषु लौल्याच्च चित्तस्थैर्यह्रासः । ४ - शिक्षा- जीविका - दायभागादिविधिषु उच्छृङ्खलदृष्टेरनुप्रवेशः, ततश्च यमनियमाभ्यासेऽपटुता संजाता, सा चेदानीं विवर्धमाना दृश्यते । १. न्यायभाष्यगतमिदं दोषप्रदर्शनं खलु न्यायसम्मतारम्भवादमाश्रित्यैव कृतम् । अत एव पारिभाषिकप्रक्रियाजन्यमिदं दोषदर्शनमित्यतो न वास्तवः कश्चिद् दोषो विद्यते योगभाष्यवाक्ये इति स्वीकार्यमेव । २. एतत् कारणकथनं न स्वमनीषा-प्रभवम् । न्यायकुसुमाञ्जल्याम् ( २१३ ) ‘जन्मसंस्कारविद्यादेः’ इति कारिकायामपि इत्यमेव विचारितम् । ग्राह च पराशर:- "पुरा खलु अपरिमितशक्तिप्रभाप्रभाववीर्यं “धर्मसत्त्वशुद्धतेजसः पुरुषा बभ्रुवुः J ● इत्यादि । (उत्पलकृत बृहत्संहिताटी काया मुद्घृतमिदं वचः ) । मन्वादिभिरपि मतमिदं कथितम् अत एवास्माभिरुच्यते यत् कपिलपअशिखपतञ्चल्यादिभिर्यंद् मोक्षदर्शनमुक्तं तदेव समीवीनम् क्षीणबलैः तमोगुणाधिक्ययुक्त समाजस्थितैराचार्यैः पुनयंदुक्तं तत् कलिमलयुक्तमिति । शंकर-रामानुजाभिनवगुप्तादीनां समये चित्तस्थैयं- हेतुभूतसाधनानि प्रायेण भ्रष्टानि जातानीति निश्चप्रचम्; कपिलादिजन्मसमये न तपेखि ५