सांख्ययोगीयमतभेदरहस्यम् परीक्षणादिभिश्चोपपत्तिभिश्च युक्ता - अध्यात्मयोगविद्येयमेवं न्यायदृढा प्रयोग- यथा मूलपदार्थविषयको मतविरोधो न कदापि भवितुमर्हति । द्रष्टारं दृश्यं सत्कार्यवादं योगजप्रज्ञां चाश्रित्य प्रवर्तितेयं विद्येति प्रागुपपादितम् । दृश्यादीनां तात्त्विकं स्वरूपं ये जानीयुस्ते कदापि न परस्परविरुद्धमतप्रवादिनो भवेयुरिति न्याय्या दृष्टिः । एवं सत्यपि दृष्टिभेदतः, वर्गीकरणप्रक्रियामेदतः विश्लेषणप्रकारभेदतः, स्थैर्यस्तरमेदजनितज्ञान मे दतश्च मतभेदा भूयांसोऽवलोक्यन्ते तत्तदाचार्यप्रणीतग्रन्थेषु' । मतभेदमात्रेण न मतविरोधो भवतीति विज्ञेयम् । तदेतदुदाहरणैरुपपाद्यते- १ - महतोऽहंकारः, ततश्च तन्मात्राणि, इत्येव सम्प्रदायाभ्युपगतं मतम् । क्वचिच्च महतस्तन्मात्राणां सृष्टिरिति कथितम्, यथोक्तं योगभाष्ये- "षडविशेषाः ........बष्ठश्चाविशेषोऽस्मितामात्र इति । एते सत्तामात्रस्थात्मनो महतः षड- विशेषपरिणामाः” ( २।१६ ) इति । अत्र सांख्ययोगयोर्मतभेदोऽयमिति आधु- निकाः केचन । वस्तुतस्तु भाष्यकारस्यायमाशयो यल लिङ्गमात्रं खलु षण्णा- मविशिष्टलिङ्गानां कारणम् । सर्वान् अविशेषानेकजातौ संकलय्य तत्कारणत्वेन लिङ्गमात्रमुदाहृतम् । अविशेषेषु अपि कार्यकारणक्रमोऽस्तीत्यत्र न विभज्यो- कम् । न खलु महत्तत्त्वं गन्धतन्मात्रस्य साक्षादुपादानं भवितुमर्हति, किन्तु परम्परयैव; अत एव भाष्यकार: १।४५ भाष्ये तन्मात्रकारणत्वेनाहङ्कार तस्यापि कारणत्वेन महत्तत्त्वं च स्वीचकार ( द्र० कपिलाश्रमीय-पातञ्जल- योगदर्शनम् २।२६ ) । २. तथैव क्वचिद् दूरसंबन्धतोऽपि शब्दाः प्रयुज्यन्ते । उपस्थस्य कार्य- मानन्द इति सांख्ययोगग्रन्थेषु दृश्यते, तच्चासमीचीनम् । प्रजनन मेवोपस्थकार्यम् (सां० का० २८ गौडपाद-टीका), औपस्थिकया क्रियया सह सुखाभिव्यक्तेर्बहुल- साहचर्य दर्शना देवमुक्तमित्येव प्रत्येतव्यम्; प्रत्यक्षन्यायानुगृहीतोऽयं पन्थाः । १. यथाह शंकर:–"परस्परविरुद्ध वायं सांख्यानामभ्युपगमः, क्वचित् सप्तेन्द्रि- याण्यनुक्रामन्ति, क्वचिदेकादश तथा क्वचिन्महतस्तन्मात्र सर्गमुपदिशन्ति, क्वचिद- हङ्कारात्, तथा क्वचित् त्रीण्यन्तःकरणानि वरर्णयन्ति, क्वचिदेक मिति" ( शारीरक० २१२११० ) । सोऽयं मतभेदो न विरोधो वास्तवः, प्रत्युत वर्गीकरण प्रक्रियाभेद एव । साधनोत्कर्षंप्रकर्षजनित-दृष्टिभेदेनापि एतादृशो मतभेदो भवितुम हँत्येकस्मिन्नेव दर्शनशास्त्रे । अत एव साधनभेदादेव क्वचिद् विवेकः प्रकृतिपुरुषान्यताप्रत्यरूप इति, क्वचिव सत्त्वपुरुषान्यताख्यातिरूप इति चोच्यते । नात्र कश्चिद् विरोध इति योगविदो विदुः ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/३०
दिखावट