पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८ ) ३. तथैव क्वचिद् आंशिक कार्यादिकमेव उक्तं न कृत्स्नम्, यथा – पाणि- कार्यम् 'आदानम्' इति कथ्यते (सां० का० २८) । आदानं यथा पाणिकार्यम्, तथा दानमपि पाणिकार्यमिति प्रत्यक्षसिद्धम् । तस्मात् शिल्पमेव पाणि कार्य- मित्येव सुवचम् । तथैव विष्णुपुराणादिषूकमपि दृश्यते ( १ | २ | ४५ ) । आदानग्रहणं पुनरुपलक्षणार्थमित्येव मन्तव्यम् । अत एवं यदि कश्चिद् दाना- दाने पाणिकार्यमिति ब्रूयात्, न तत्र मतभेदगन्धः कल्पनीयः' । ४. तथैव अध्यवसायलक्षणा बुद्धिः, सा च महानिति उच्यते; क्वचित् पुनः 'बुद्धिरध्यवसायेन ज्ञानेन च महांस्तथा' इत्युच्यते । अत्रापि न मतविरोध: शङ्कनीयः । आहुश्चात्र हरिहरानन्दचरणाः- "सर्वे प्रत्यया बुद्धिरित्यभिधीयन्ते, महानात्मा पुनरात्मविषया शुद्धा बुद्धिरिति विवेच्यम्” इति ( सांख्यतत्त्वालोकः, १५ प्रकरणम् ) । वायौ “संकल्पोऽध्यवसायश्च तस्य वृत्तिद्वयं स्मृतम्" (४।४६) इत्युक्तम्, अत्रापि न मतविरोध इति गुरुपरम्परातोऽत्र गन्तव्यम् । ५. एवमेव क्वचित् सात्त्विको महानित्येवोक्तम् । क्वचिच्च सात्त्विक राजस-तामस-भेदात् त्रिघेति कथ्यते ( विष्णु० १ | २ | ३४ ) | सर्व त्रैगुणिकम्, चलं च गुणवृत्तमिति न्यायेन दृष्टिभेदमाश्रित्य एतादृशा अवान्तरमतभेदा उपजायन्त एव । न च तैर्मतविरराधो भवतीति ज्ञेयम् । सांख्ययोगानभिज्ञकर्तृकसांख्ययोगमतप्रदर्शनम्-अतिदुरवधारणा खल्वियं विद्या । विशुद्धा प्रज्ञा, न्यायानुसारिणी धीः, वीर्यस्मृत्यादिगुणाश्चात्रापेक्ष्यन्ते । असूक्ष्मप्रज्ञैर्दार्शनिकैरत एव सांख्ययोगौ न सम्यग्ज्ञातौ । अज्ञात्वाऽपि ते सांख्ययोगमतानि प्रदर्शयन्ति । अतो बहुत्र सांख्ययोगमतप्रदर्शने तैर्यदुक्तं तन्मि- श्येति दृश्यते । तथा हि- १. जैनविद्वान् हरिभद्रसूरिराह – “सांख्या निरीश्वराः केचित् केचिदीश्वर- देवताः” इति (पड्दर्शनसमुच्चयः, ३५ श्लो०) तथैव भास्कररायोऽपि “मीमांसा- शास्त्रं सांख्यशास्त्रं च द्विविधं-सेश्वरं निरीश्वरं च” इति उक्तवान् (ललिता- सहस्रनामभाष्यम् पृ० ६३) । ईश्वरता खलु बुद्धिरूपेषु अन्यतमा, सर्वज्ञता- १. आंशिकं लक्षणं दृष्ट्वा लक्षणान्तरमनुमेयं भवति । सांख्यसूत्रे व्यक्तलक्षणं प्रदत्तम् – "हेतुमदनित्यमने कम् * ( ११ १२४ ) इति । नात्र 'अव्यापि' इति पद- मस्ति; परन्तु यदि कश्चिद् ब्रूयात्-सूत्रमते व्यक्तं व्यापि भवति, सांख्यसप्ततिमते ( १० कारिका ) तु अव्यापि, यतो हि सूत्रे अव्यापीति न प्रयुक्तम्; तहि स अज्ञ इत्येव मन्तव्यम्, हेतुमदादिलक्षणैरव्यापित्वस्यापि साधितत्वाद् इति। अत एवात्र न कबिद् विरोध उद्भावनीयः ।