पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतश्च 'वैद्यकशास्त्रे विजातीयं किमपि सांख्य मस्ति' इति यदाधुनिकगवेषकाणां लपनं, तत् प्रलपनमेवेति ( H.I.P. पृ. २१२-२१७ ) | मूलभूतदृष्टी समानायां सत्यामपि अवान्तरदृष्टिभेदतो मतपार्थक्यं जायत एव, एतादृशेन मतभेदेन न प्रस्थानपार्थंक्यं भवति, यथा खलु अदर्शनसम्बन्धिमतभेदैः ( द्र० योगभाष्यम् २।२३ ) न सांख्यशास्त्रं तत्त्वतो भिद्यते । अथ सांख्यग्रन्थगतस्य दुष्टस्य मतस्योदाहरणमत्र दीयते । सांख्यसप्तत्यां लिङ्गशरीरविषयेऽस्ति कारिका – "चित्रं तद्वद् विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् (४१ कारिका ) । अत्र कैश्चिद् मन्यते यदविशेषैः तन्मात्रै- विना लिङ्गशरीरं न स्थातुमुत्सहते । नेदं कथनं समीचीनम्, यतो हि सप्तत्यां प्रागेव तन्मात्राणि लिङ्गशरीरेऽन्तर्भुक्तानि कृतानि (द्र० ४० कारिका- महदादिसूक्ष्मभूतपर्यन्तं लिङ्गं संसरतीति वाक्यम् ), अत एवात्र विशेषेति पदच्छेद: करणीयः । विशेषश्चात्र सुखदुःखबोधयुनोपभोगशरीरस्योपादानम्, तच्च घटाद्यपेक्षया सूक्ष्मम् । न चेदं शरीरं ( यत् स्थूलशरीरत्यागान्तरं गृह्यते जीवेन ) तान्मात्रिकं, सुखाद्युपभोगदर्शनात् तत्र । अत एव तद् विशेषधर्मयुक्तम् । अविशेषतन्मात्रमयम् तदिति यत् भिक्षु-भावागणेशादिभिरुक्तम्, तदनया युक्त्या प्रत्युक्तमिति' । क्वचिच्च ग्रन्थेषु अशुद्धं विवरणमेवोपन्यस्तम्, बहिरङ्गविषयेषु । यथा योगभाष्यगतं भुवनकोशवर्णनम् । नूनमादौ केनचिद् योगिनेदं ब्रह्माण्ड-संस्थानं प्रत्यक्षीकृतम्, ततश्च तदुक्तं विवरणं कण्ठपरम्परया प्रचारितं यथाकालम् । एतादृशो जटिलो विषयो यदि लोकपरम्परायां प्रचलितः स्यात्, तर्हि काला- न्तरे तस्य विकृतिरपि स्यादेव यथाश्रुतमविशुद्धमिदं विवरणं भाष्यकृता योगभाष्ये ( ३।२६ ) उपनिबद्धम् । चरमयोगसिद्धकृतग्रन्थाभावात् साधककृतग्रन्थदर्शनाच्च सांख्ययोगग्रन्थेषु क्वचिदीदृशा विषया असम्यगुरूपेण उपन्यस्ता इति वेदितव्यम् ( द्र० कापिलाश्रमीयपातञ्जलयोगदर्शनम् ३।२६ ) । स्वर्ग नरकादि विवरणमपि अतिरञ्जितवर्णनभूयिष्ठमिति स्मृत्यादिगतं स्वीकरणीयम् । १. स्थूल विशेषात्मकशरीरत्यागानन्तरं यत् शरीरं नारकादिभोगार्थं जीवो गृह्णाति, तत् शरीरमपि विशेषोपादानकम्, न पुनस्तान्मात्रिकमिति । स्थूलशरीरविशेष एव तत् शरीरमतः केचनाचार्याः एतादृशमन्तराभवदेहं पृथग्रूपेण नेच्छन्ति । लिङ्ग- शरीरं न विशेषयुक्तम्, परन्तु विशेषशरीरमन्तरेण न तत् कार्यक्षमं भवति, अतः ब्रह्माण्डेऽभिव्यक्त तत् सदैव विशेषयुक्तं भूत्वा पुरुषार्थं साधयति ।