सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १५ ) कथितम्, नेदं पुनः सांख्य दर्शनं ज्ञापयति । यदि सांख्यदृशा द्रष्टारं दृश्यं च कश्चिजानीयात्, तर्हि न्यायत एव 'न मे नाहं नास्मि' इति सांख्यकारिकादर्शित- साधनस्यापरिहार्यतां चापि स स्वीकुर्यात् । भागवते पुनरिदं साधनं नोल्लिखितम् । भागवतीये सांख्य-प्रकरणे सगुणं निर्गुणं चात्मस्वरूपम विशेषेणोक्तम् । एकमेव भगवान् सगुणश्च निर्गुणश्चेति न सांख्यीयं दर्शनम् । न वेदं दर्शनं न्यायेनापि संगमनीयम् । यदि नाम पञ्चशिखाद्युपदिष्टं सांख्यज्ञानमिह याथार्थ्येन प्रतिपादितं स्यात्, तर्हि नायं दोष आपतेत्। वस्तुतस्तु भागवतसांप्रदायिकेन केनापि स्वेष्ट- मतमहिमख्यापनाय सांख्ययोगमतं विपरिणमय्य स्वदृष्टया सांख्यमतम् उपनिब- द्धम् | ३|३२|३५ इत्यत्रोक्तम् “योगेन विविधाङ्गेन भक्तियोगेन चैव हि” इति । सांख्ययोगदृशा योगाङ्गेष्वेव भक्तिरपि संगृहीता, दृश्यते खल्वीश्वरप्रणिधानस्य नियमेषु अन्तर्भाव इति ( योगसूत्रम् २।३२) । अतोऽत्र भक्तियोगस्य पृथक् करणं भागवतकारस्यासंकीर्णसांख्ययोगविषयेऽज्ञानमेव ज्ञापयति । ३।२७।२८ इत्यत्रोक्तं यत् कैवल्याख्यं पदं भगवदाश्रयमिति; नेयं सांख्यीया दृष्टिः । कस्मात् ! प्रकृतिपुरुषसंयोगभूतं खलु भागवतं स्वरूपमतः प्रकृतिपरस्थं देश- कालातीतं कैवल्यपदं न भगवदाश्रयम् भवितुर्मति । एवं सत्यपि साधनविषये बहूनि सारगर्भाणि बचांस्यत्र वर्तन्ते, अतः साधनाभ्यासदृष्टया प्रकरणमिदमुत्तमम् । अन्येष्वपि पुराणेषु सांख्ययोगवर्णन- मीषद्दोषग्रस्तमवलोक्यते । यतो हि पुराणानि न दर्शनग्रन्थाः, अतो न तानि आन्वीक्षिकीपद्धत्या रचितानि । लोकानुरञ्जन-पराणि तानि । अतः न पुराणगतानां सर्वेषां सांख्ययोग-प्रतिपादकानां वाक्यानां समानं प्रामाण्यम् । सर्वत्र मूलभूत- सांख्ययोगदृशा पुराणवचनानि परीक्ष्याणि, ततश्च ग्राह्याणीति । दोषोऽयं मन्वादिप्राचीनस्मृतिषु धर्मसूत्रादिषु च प्रायेण नास्त्येव । एषु ग्रन्थेषु क्वचिदेव लोकानुरञ्जनार्थमतिरञ्जनं दृश्यते, क्वचिदेव च अर्थवाद- गन्धयुक्तं सत्यार्थकथनम् । अत्रेदमपि विज्ञेयं यत् सांख्ययोगविद्यायाः प्राचीना मूलभूता ग्रन्था नष्टा एव, एनां विद्यामाश्रित्य पुराणादयः अन्यानि दर्शनानि वैद्यकादीनि च प्रवृत्तानि । मानसशारीरशक्तिह्रासाच्च मोक्षविद्यायां बहवोऽन्धविश्वासा जाताः, कुसंस्काराश्च समागताः। अत एव सर्वेषु शास्त्रेषु यत् सांख्ययोगवर्णनमुपलभ्यते, तत् सर्वथा सारमेवेति न चिन्तनीयम् । यथा पौराणिकैः तथा शङ्करादिदार्शनिकै- रपि विकृतानि सांख्यमतानि प्रायेण प्रदर्शितानि । आयुर्वेदादिषु च यत् सांख्यमतवर्णनं तत् तत्तच्छास्त्रानुसारिदृशा कृतमिति विज्ञायते, अत एव स्थूल- दृष्ट्यैव तत्र सांख्यमतमुपन्यस्तं, न पुनरसंकीर्णया सांख्यसम्मतया दृष्टया ।