पा. ४ सू. ३३] पातञ्जलयोगसूत्रम् १८२ नित्यता पुरुषस्य । परिणामिनित्यता गुणानाम् । यस्मिन्परिणम्यमाने तस्त्वं न विहन्यते तन्नित्यम् । उभयस्य च तत्त्वानभिघातान्नित्यत्वम् । तत्र गुण- धर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो, नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः । कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्त- पुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः शब्द- पृष्ठेनास्तिक्रियामुपादाय कल्पित इति । अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रम- समाप्तिर्न वेति ? अवचनीयमेतत् । कथम् ? अस्ति प्रश्न एकान्तवचनीयः- सर्वो जातो मरिष्यति इति ? ॐ भो इति । अथ सर्वो मृत्वा जनिष्यत इति ? विभज्य वचनीयमेतत् । प्रत्युदित- द्वयीति । ननु कूटस्थं स्वभावादप्रच्युतमस्तु नित्यम्, परिणामि सदैव स्वरूपा च्च्यवमानं कथं नित्यमित्यत आह—यस्मिन्नति । धर्मलक्षणावस्थानामुदय- व्ययधर्मत्वम्, धर्मिणस्तु तत्त्वादविघात एवेति । अथ कि परिणामापरान्तनिर्मा- ह्यता सर्वक्रमस्य, नेत्याह-तत्र गुणधर्मेषु बुद्धयादिष्विति । यतो लब्ध- पर्यवसानो धर्माणां विनाशात् । प्रधानस्य तु परिणामक्रमो न लब्धपर्यवसानः । ननु प्रधानस्य धर्मरूपेण परिणामादस्तु परिणामक्रमः; पुरुषस्य त्वपरिणामिनः कुतः परिणामक्रम इत्यत आह — कूटस्थेति । तत्र बद्धानां चित्ताव्यतिरेका- भिमानात्तत्परिणामेन परिणामाध्यासः । मुक्तानां चास्तिक्रियामुपादायावास्त- वोऽपि परिणामो मोह कल्पितः, शब्दस्य पुरःसरतया तत्पृष्ठो विकल्पोऽस्तिक्रिया- मुपादत्त इति । गुणेष्वलब्धपर्यवसानः परिणामक्रम इत्युक्तम् । तदसइमानः पृच्छति- अथेति । स्थित्येति । महाप्रलयावस्थायाम् । गत्येति । सृष्टौ । एतदुक्तं भवति- यद्यानन्त्यान्न परिणामसमाप्तिः संसारस्य, हन्त भोः कथं महाप्रलयसमये सर्वे- षामात्मनां सहसा समुच्छिद्येत, कथं च सृष्ट्यादौ सहसोत्पद्येत संसार : १ तस्मादेकैकस्यात्मनो मुक्तिक्रमेण सर्वेषां विमोक्षादुच्छेदः सर्वेषां संसारस्य क्रमेणेति प्रधानपरिणामक्रमपरिसमाप्तिः । एवं च प्रधानस्याप्यनित्यत्व प्रसङ्गः । न चापूर्वसत्त्वप्रादुर्भाव इष्यते येनानन्त्यं स्यात् तथा सत्यनादित्वव्याहतेः सकलशास्त्रार्थभङ्गप्रसङ्ग इति भावः । उत्तरमाह-अवचनीयमनुत्तराईमेतत् । एकान्तत एव तस्यावचनीयतां दर्शयितुमेकान्तवचनीयं प्रश्नं दर्शयति–अस्ति प्रश्न इति । सर्वो जातो मरिष्यतीति प्रश्नः । उत्तरम् --ॐ भो इति । सत्यं भो इत्यर्थः । , अविभज्य वचनीयमुक्त्वा प्रविभज्य वचनीयं प्रश्नमाह-अथ सर्व इति ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२८९
दिखावट