पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८३ वाचस्पतकृतटीकायुतव्यास भाष्यसमेतम् [ पा. ४: सू. १४ ख्यातिः क्षीणतृष्णः कुशलो न ज़निष्यत इतरस्तु जनिष्यते । तथा मनुष्य- जातिः श्रेयसी न वा श्रेयसीत्येवं परिपृष्टे विभज्य वचनीयः प्रश्नः पशून- धिकृत्य श्रेयसी देवानृषींश्चाधिकृत्य नेति । अयं त्यवचनीयः प्रश्नः-संसारो- ऽयमन्तवानथानन्त इति । कुशलस्यास्ति संसारक्रमपरिसमाप्तिर्नेतरस्येत्यन्य- तरावधारणेऽदोषः । तस्माद्वयाकरणीय एवायं प्रश्न इति ॥ ३३ ॥ गुणाधिकारक्रमसमाप्तौ कैवल्यमुक्तम् । तत्स्वरूपमवधार्यते- पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४ ॥ कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मकानां .) विभज्य वचनीयतामाह — विभज्येति । विभज्य वचनीयमेव प्रश्नान्तरं विष्टार्थमाह — तथा मनुष्येति । अयं त्ववचनीय एकान्ततः । न हि सामान्येन कुशलाकुशलपुरुषसंसारस्यान्तवत्व मनन्तवत्त्वं वा शक्यमेकान्ततो वक्तुम् यथा प्राणभृन्मात्रस्य श्रेयस्त्वमश्रेयस्त्वं वा नैकान्ततः शक्यमवधार- यितुम् । यथा जातमात्रस्य मरणमेकान्तः । विभज्य पुनः शक्यावधारण- मित्याह – कुशलस्येति । अयमभिसंधिः- क्रमेण मोचे सर्वेषां मोक्षात्संसारोच्छेद इत्यनुमानम् । तच्चागमसिद्धमोक्षाश्रयम् । तथा चाभ्युपगतमोक्षप्रतिपादकागम- प्रमाणभावः कथं तमेवागमं प्रधानविकारनित्यतायामप्रमाणी कुर्यात् ? तस्मा- दागमबाधितविषयमेतदनुमानं न प्रमाणम् । श्रूयते हि श्रुतिस्मृतीतिहास- पुराणेषु सर्गप्रतिसर्गपरम्पराया अनादित्वमनन्तत्वं चेति । अपि च सर्वेषामेवा- त्मनां संसारस्य न तावद्युगपदुच्छेदः संभवी । न हि पण्डितरूपाणामप्यनेक- जन्मपरम्पराभ्यासप रिश्रमसाध्या विवेकख्यातिप्रतिष्ठा, किं पुनः प्राणभृन्मात्रस्य स्थावरजङ्गमादेरेकदाऽकस्माद्भवितुमर्हति । न च कारणायोगपद्ये कार्ययोगपद्यं युज्यते । क्रमेण तु विवेकख्यातावसंख्येयानां क्रमेण मुक्तौ न संसारोच्छेदो ऽनन्तत्वाजन्तूनामसंख्येयत्वादिति सर्वमवदातम् ॥ ३३ ॥ कैवल्यस्वरूपावधारणपरस्य सूत्रस्थावान्तरसंगतिमाह-गुणाधिकारेति । पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चिति- शक्तिरिति । कृतकरणीयतया पुरुषार्थशून्यानां यः प्रतिप्रसवः स्वकारणे प्रधाने लयस्तेषां कार्यकारणात्मकानां गुणानां व्युत्थानसमाधिनिरोधसंस्कारा मनसि लीयन्ते, मनोऽस्मितायाम्, अस्मिता लिङ्गे, लिङ्गमलिङ्ग इति । योऽयं गुणानां