पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८१ वाचस्पतिकृतटीकायु तव्यासभाष्यसमेतम् [पा. ४ सू. ३५ अन्धो मणिमविध्यत्तमनङ्गुलिरावयत् । अग्रीवस्तं प्रत्यमुञ्चत्तम जिह्वोऽभ्यपूजयत् ॥ इति ॥ ३१ ।। ( तुल० तै० आ० १।११।५ ) ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ३२ ॥ तस्य धर्ममेघस्योदयात्कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते । न हि कृतभोगापवर्गाः परिसमाप्तक्रमाः क्षणमप्यवस्थातुमुत्सहन्ते ॥ ३२ ॥ अथ कोऽयं क्रमो नामेति ? क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ३३ ॥ क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः । न ह्यननु. भूतक्रमक्षणा नवस्य पुराणता वस्त्रस्यान्ते भवति । नित्येषु च क्रमो दृष्टः । द्वयी चेयं नित्यता – कूटस्थनित्यता परिणामिनित्यता च । तत्र कूटस्थ- अविध्यदन्धो मणिमिति । आवयद् प्रथितवान् । प्रत्यमुञ्चत्सिनद्धवान् । अभ्यपू- जयत्स्तुतवानिति ॥ ३१ ॥ ननु धर्ममेघस्य परा काष्ठा ज्ञानप्रसादमात्रं परं वैराग्यं समूलघातमपहन्तु व्युत्थानसमाधिसंस्कारान्सक्लेशकर्माशयान्। गुणास्तु स्वत एव विकारकरणशीलाः कस्मात्तादृशमपि पुरुषं प्रति देहेन्द्रियादि नारभन्त इत्यत आह - ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् । शीलमिदं गुणानां यदमी यं प्रति कृतार्थास्तं प्रति न प्रवर्तन्त इति भावः ॥ ३२ ॥ अत्रान्तरे परिणामक्रमं पृच्छति-अथ कोऽयमिति । क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः । परिणामक्रमः क्षणप्रतियोगी, क्षण: प्रति- संबन्धी यस्य स तथोक्तः, क्षणप्रचयाश्रय इत्यर्थः । न जातु क्रमः क्रमवन्त- मन्तरेण शक्यो निरूपयितुम् । न चैकस्यैव क्षणस्य क्रमः | तस्मात्क्षणप्रचया- श्रयः परिशिष्यते । तदिदमाह- क्षणानन्तर्यात्मेति । परिणामक्रमे प्रमाणमाह- परिणामस्येति । नवस्य हि वस्त्रस्य प्रयत्नसंरक्षितस्यापि चिरेण पुराणता दृश्यते । सोऽयं परिणामस्थापरान्तः पर्यवसानम् । तेन हि परिणामस्य क्रमः । ततः प्रागपि पुराणतायाः सूक्ष्मतमसूक्ष्मतरसूक्ष्मस्थूलस्थूलतरस्थूलतमत्वादीनां पौर्वा- पर्यमनुमीयते । एतदेव व्यतिरेकमुखेन दर्शयति – न हीति । अननुभूतोऽप्राप्तः क्रमक्षणो यया सा तथोक्ता । नन्वेष क्रमः प्रधानस्य न संभवति, तस्य नित्य- त्वादित्यत आह – नित्येषु चेति । बहुबचनेन सर्वनित्यव्यापितां क्रमस्य प्रतिजानीते। - तत्र नित्यानां प्रकारभेदं दर्शयित्वा नित्यव्यापितां क्रमस्योपपादयति-- 01