पा. ४ सू. ९ ] पातञ्जलयोगसूत्रम् बताम् । सा हि केवले मनस्यायतत्वावहिः साधनानधौना न परान्पीडयित्वा भवति । अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानामिति । तत्राशुक्लं योगिन एव फलसंन्यासात, अकृष्णं चानुपादनात् । इतरेषां तु भूतानां पूर्वमेव त्रिविधमिति ॥ ७ ॥ १३० ततस्तद्विपाकानुगुणाना मेवाभिव्यक्तिर्वासनानाम् ॥ ८ ॥ तत इति त्रिविधात्कर्मणः । तद्विपाकानुगुणानामेवेति । यज्जातीयस्य कर्मणो यो विपाकस्तस्यानुगुणा या वासनाः कर्मविपाकमनुशेरते तासामे- वाभिव्यक्तिः। नहिं दैवं कर्म विपच्यमानं नारकतिर्यङ्मनुष्यवासनाभि- व्यक्तिनिमित्तं संभवति। किं तु दैवानुगुणा एवास्य वासना व्यज्यन्ते । नारकतिर्यङ्मनुष्येषु चैवं समानश्चर्चः ॥ ८ ॥ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृति- संस्कारयोरेकरूपत्वात् ॥ ९ ॥ परपीडा नास्ति । अवघातादिसमये पिपीलिकादिवघसंभवात् । अन्ततो बीजादि- वघेन स्तम्बादिभेदोत्पत्तिप्रतिबन्धात् । अनुग्रहश्च दक्षिणादिना ब्राह्मणादेरिति । शुक्ला तपःस्वाध्यायध्यानवतामसंन्यासिनाम् । शुक्लत्वमुपपादयति — सा हीति। अशुक्लाकृष्णा संन्यासिनाम् । संन्यासिनो दर्शयति- क्षीणेति । कर्मसंन्यासिनो हि न क्वचिद्वहिःसाधनसाध्ये कर्मणि प्रवृत्ता इति न चैषामस्ति कृष्ण: कर्माशयः । योगानुष्ठानसाध्यस्थ कर्माशयफलस्येश्वरे समर्पणान शुक्लः कर्माशयः । निरत्ययफलो हि शुक्ल उच्यते । यस्य फलमेव नास्ति कुतस्तस्य निरत्ययफलत्वमित्यर्थः । तदेवं चतुष्टयीं कर्मजाति- मुक्त्वा कतमा कस्येत्यवधारयति-तत्राशुक्लमिति ॥ ७ ॥ कर्माशयं विविच्य क्लेशाशयगतिमाह–ततस्तद्विपाकानुगुणानामेवाभि- व्यक्तिर्वासनानाम् । यज्जातीयस्य पुण्यजातीयस्थापुण्यजातीयस्य वा कर्मणो यो विपाको, दिव्यो वा नारको वा जात्यायुर्भोगस्तस्य विपाकस्यानुगुणाः । ता एवाह - या वासनाः कर्मविपाकमनुशेर तेऽनुकुर्वन्ति । दिव्यभोगजनिता हि दिव्यकर्मविपाकानुगुणा वासनाः । न हि मनुष्यभोगवासनाभिव्यक्तौ दिव्य कर्मफलोपभोगसंभवः | तस्मात्स्वविपाकानुगुणा एव वासनाः कर्माभिव्यञ्जनीया इति भाष्यार्थः ॥ ८ ॥ स्यादेतत्-मनुष्यस्य प्रायणानन्तरमधिगतमाआंरभावस्थानन्तरतया मनुष्य- वासनाया एवाभिव्यक्त्या भवितव्यम् । न खल्वस्ति संभवो यदनन्तरदिवसानु-
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२६७
दिखावट