पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृत टीकायुतव्यासभाष्यसमेतम् [पा. ४ सु. १० वृषदंशविपाकोदयः स्वव्यञ्जकाञ्जनाभिव्यक्तः स यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहितः पुनश्च स्वव्यञ्जकाञ्जन एवोदियाद् द्रागित्येवं पूर्वानुभूतवृषदंशविपाकाभिसंस्कृता वासना उपादाय व्यज्येत । कस्मात् ? यतो व्यवहितानामप्यासां सदृशं कर्माभिव्यञ्जकं निमित्तीभूत- मित्यानन्तर्यमेव । कुतश्च ? स्मृतिसंस्कारयोरेकरूपत्वात् । यथानुभवास्तथा संस्काराः । ते च कर्मवासनानुरूपाः । यथा च वासनास्तथा स्मृतिरिति जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतिः । स्मृतेश्च पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशाद्वय ज्यन्ते । अतश्च व्यव हितानामपि निमित्तनैमित्तिकभावानुच्छेदादानन्तर्यमेव सिद्धमिति ॥ ९ ॥ तासामनादित्वं चाशिषो नित्यत्वात् ॥१०॥ तासां वासनानामशिषोनित्यत्वादनादित्वम् | येयमात्माशीर्मा न भूवं १६१ - भूतं न स्मयंते व्यवहितदिवसानुभूतं च स्मर्यंत इत्यत आह - जातिदेशकाल - व्यवहितानामप्यानन्तयं स्मृतिसंस्कारयोरेकरूपत्वात् । भवतु वृषदंश- वासनाया जात्यादिव्यवधिः, तथापि तस्याः फलत आनन्तर्यम् । वृषदंशाविपाकेन कर्मणा तस्या एव स्वविपाकानुगुणाया अभिव्यक्तौ तत्स्मरणसमुत्पादादि- त्याह – वृषदंशविपाकोदय इति । उदेत्यस्मादित्युदयः कर्माशयः । पुनश्च स्वव्यञ्जकाञ्जन एवोदियात्, अभिव्यज्येत विपाकारम्भाभिमुखः क्रियेतेत्यर्थः । अभिसंस्कारक्रिया उपादाय गृहीत्वा व्यज्येत । यदि व्यज्येत स्वविपाकानुगुणा एव वासना गृहीत्वा व्यज्येतेत्यर्थ | | आनन्तर्यमेव फलतः कारणद्वारकमुपपाद्य कार्यद्वारमुपपादयति–कुत स्मृतीति । एकरूपतया सादृश्यम् । तदेवाह- यथेति । नन्वनुभवसरूपाश्चेत्संस्कारास्तथा सत्यनुभवा विशरारव इत्येतेऽपि विशरारवः कथं चिरभाविनेऽनुभवाय कल्पेरन्नित्यत आह-ते च कर्मवासनानु- रूपा इति । यथाऽपूर्वं स्थायि क्षणिककर्मनिमित्तमप्येवं क्षणिकानुभवनिमित्तोऽपि संस्कारः स्थायी । किंचिद्भेदाधिष्ठानं च सारूप्यम् । अन्यथाऽभेदे तत्त्वेन साह- श्यानुपपत्तेरित्यर्थः। सुगममन्यत् ॥ ९ ॥ स्यादेतत्—व्यजेरम्पूर्वपूर्वतरजन्माभिसंस्कृता वासनाः । यदि पूर्वपूर्वतर- जन्मसद्भावे प्रमाणं स्यात् । तदेव तु नास्ति । न च जातमात्रस्य जन्तोहर्षशोकद- र्शनमात्रं प्रमाणं भवितुमर्हति । पद्मादिसंकोच विकासवत्स्वाभाविकत्वेन तदुपपत्ते- रित्यत आह – तासामनादित्वं चाशिषो नित्यत्वात् । तासां वासनानामना- दिवं च न केवलमानन्तर्यमिति चार्थः । आशिषो नित्यत्वात् । आत्माशिषो ११ मो० ०