वाचस्पतिकृतटीकायुतंव्यासभाष्यसमेतम् [पा. ४. सू. ७ बहूनां चित्तानां कथमेकचित्ताभिप्रायपुरःसरा प्रवृत्तिरिति सर्वचिन्तानां प्रयोजकं चित्तमेकं निर्मिमीते, ततः प्रवृत्तिभेदः ॥ ५ ॥ तत्र ध्यानजमनाशयम् ॥ ६ ॥ १५९ पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपः समाधिजाः सिद्धय इति । तत्र यदेव ध्यानजं चित्तं तदेवानाशयम् । तस्यैव नास्त्याशयो रागादि- प्रवृत्तिः । नातः पुण्यपापाभिसंबन्धः क्षीणक्लेशत्वाद्योगिन इति । इनरेषां तु विद्यते कर्मारायः ॥ ६ ॥ यतः- कर्माशुक्लाकृष्णं योगिनस्त्रिविघमितरेषाम् ॥ ७ ॥ चतुष्पदा खल्त्रियं कर्मजातिः । कृष्णा शुक्लकृष्णा शुक्लाऽशुक्ला- कृष्णा चेति । तत्र कृष्णा दुरात्मनाम् । शुक्लकृष्णा वहिःसाधनसाध्या, तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः । शुक्ला तपःस्वाध्यायध्यान- र्माणेन । निजस्यैव मनसो नायकत्वादिति वाच्यम् । प्रमाणसिद्धस्य नियोगपर्य- नुयोगानुपपत्तेरिति । अत्र पुराणं भवति- एकस्तु प्रभुशक्त्या वे बहुधा भवतीश्वरः । भुत्वा यस्मात्तु बहुधा भवत्येकः पुनस्तु सः ॥ तस्माच्च मनसो भेदा जायन्ते चैत एव हि । (तुल० वायुपु. ६६।१४३-१४४) एकधा स द्विधा चैव त्रिधा च बहुधा पुनः। योगीश्वरः शरीराणि करोति विकरोति च । प्राप्नुयाद्विषयान्कैश्चित्कैश्चिदुग्रं तपश्चरेत् ॥ संहरेच्च पुनस्तानि सूर्यो रश्मिगणानिव || (तुल० वायुपु. ६६।१५२ ) इति । तदेतेनाभिप्रायेणाह-बहूनां चित्तानामिति ॥ ५ ॥ तदेवमुदितेषु पञ्चसु सिद्धचित्तेष्वपवर्गभागीयं चित्तं निर्धारयति-तत्र ध्यानजमनाशयम् । आशेरत इत्याशयाः कर्मवासनाः क्लेशवासनाश्च । त एते न विद्यन्ते यस्मिस्तदनाशयं चित्तमपवर्गभागीयं भवतीत्यर्थः । यतो रागादिनि- बन्धना प्रवृत्तिर्नास्त्यतो नास्ति पुण्यपापाभिसंबन्ध: । कस्मात्पुना रागादिज- निता प्रवृत्तिर्नास्तीत्यत आह– क्षीणक्लेशत्वादिति । ध्यानजस्यानाशयस्य मनोऽन्तरेभ्यो विशेषं दर्शयितुमितरेषामाशयवत्तामाह -इतरेषां विति ॥ ६ 11 तत्रैव च हेतुपरं सूत्रमवतारयति-यत इति । कर्माशुक्लाकृष्णं योगिन- स्त्रिविधमितरेषाम् । पदं स्थानम् । चतुर्षु सममेता चतुष्पदा । यद्यावद्वहि:- साधनसाध्यं तत्र सर्वत्रास्ति कस्यचित्पीडा । न हि ब्रीह्मादिसाधनेऽपि कर्मणि-
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२६६
दिखावट