वाचस्पतिकृढीका युतण्यास मान्य समेतम् [पा. ३ सु. ५४ हेतुरिति । एतेन दृष्टान्तेन परमाणोस्तुल्यजा तिलक्षणदेशस्य पूर्वपरमाणु- देशसक्षगनाक्षात्करणादुत्तरस्य परमाणास्त शानुपपत्तावुतरस्य तद्देशा- नुभवो भिन्नः सहक्षणभेदात्तयोरीश्वरस्य योगिनोन्यत्वप्रत्ययो भवतीति । अपरे तु वर्णयन्ति – येन्त्या विशेषास्तेऽन्यताप्रत्ययं कुर्वन्तीति । तत्रापि देशलक्षणभेदो मूर्तित्र्यवधिजातिभेदञ्चान्यत्वे हेतुः । क्षणभेदस्तु योगिबुद्धि गम्य एवेति । अत उक्तं-मूर्तिव्यवधिजातिभेदाभावान्नास्ति मूलपृथक्त्वमिति वार्षगण्यः ॥ ५३ ॥ तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥ ५४ ।। अनेनैव निदर्शनेन लौकिकपरीक्षकसंवादादिना परमाणोरपीदृशस्य भेदो योगी- श्वरबुद्धिगम्यः श्रद्धेय इत्याह - एतेनेति । अपरे तु वर्णयन्ति । वर्णनमुद।हरति- –य इति । वैशेषिका हि नित्यद्र- व्यवृत्तयोऽन्त्या विशेषा इत्याहुः । तथा हि-योगिनो मुक्तांस्तुल्य जातिदेशकाला- न्व्यवधिरहितान्परस्परतो मेदेन प्रत्येकं तत्त्वेन च प्रतिपद्यन्ते । तस्मादस्ति कश्चिदन्त्यो विशेष इति । तथा च स एव नित्यानां परमाण्वादीनां द्रव्याणां मेदक इति । तदेतद्दूषयति-तत्रापीति | जातिदेशलक्षणान्युदाहृतानि | मूर्तिः संस्थानम् | यथैकं विशुद्धावयव संस्थानोपपन्नमपसार्य तस्मिन्नेव देशेऽन्यव्यग्रस्य द्रष्टुः कुत्सितावयवसंनिवेश उपावर्त्यते तदा तस्य संस्थानभेदेन मेदप्रत्ययः । शरीरं वा मूर्तिः। तत्संबन्धेनात्मनां संसारिणां मुक्तात्मनां वा भूतचरेण यादृश- तादृशेन मेद इति सर्वत्र भेदप्रत्ययस्यान्यथासिद्धेर्नान्त्य विशेषकल्पना । व्यव- घिर्भेदकारणम् । यथा कुशपुष्करद्वीपयोर्देशस्वरूपयोरिति । यतो जातिदेशा- दिमेदा लोकबुद्धिगम्या अत उक्तम्- क्षणभेदस्तु योगिबुद्धिगम्य एवेति । एवकारः क्षणभेदमवधारयति न योगिबुद्धिगम्यत्वम् । तेन भूतचरेण देहसंबन्धेन मुक्तात्मनामपि भेदो योगिबुद्धिगम्य उन्नेय इति । यस्य तूता भेदद्देतवो न सन्ति तस्य प्रधानस्य भेदो नास्तीत्याचार्यो मेने । यस्मादूचे “कृतार्थं प्रतिनष्टमप्यनष्टं तदन्यसाधारणत्वात्" (२।२२) इति । तदाह – मूर्ति- व्यवधीति। उक्तमेद हेतूपलक्षणमेतत् । जगन्मूलस्य प्रधानस्य पृथक्त्वं भेदो नास्तीत्यर्थः ॥ ५३ ॥ - तदेवं विषयैकदेशं विवेकजज्ञानस्य दर्शयित्वा विवेकजं ज्ञानं लक्ष्यति--- तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् । विवेकजं
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२६०
दिखावट