पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पी. ३ सू. ५५ ] पातअळयोगसूत्रम् • तारकमिति स्त्रप्रतिभोत्थमनौपदेशिकमित्यर्थः । सर्वविषयत्वान्नास्य किञ्चिदविषयीभूतमित्यर्थः । सर्वथाविषयमतीतानागतप्रत्युत्पन्नं सर्व पर्यायैः सर्वथा जानातीत्यर्थः । अक्रममित्येकक्षणोपारूढं सर्व सर्वथा गृह्णातीत्यर्थः । एतद्विवेकजं ज्ञानं परिपूर्णम् । अस्यैवांशो योगप्रदीपो, मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिरिति ।। ५४ ।। प्राप्तविवेकजज्ञानस्याप्राप्तविवेकजज्ञानस्य वा- सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५ ॥ यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषस्यान्यताप्रतीतिमात्राधिकारं दग्धक्केशबीजं भवति तदा पुरुषस्य शुद्धिसारूष्यमिवापन्नं भवति, तदा पुरुषस्योपचरितभोगाभावः शुद्धिः । एतस्यामवस्थायां कैवल्यं भवतीश्वर- स्यानीश्वरस्य वा विवेकजज्ञानभागिन इतरस्य वा । न हि दग्धक्केशबीजस्य ज्ञाने पुनरपेक्षा काचिदस्ति । सत्त्वशुद्धिद्वारेणैतत्समाधिजमैश्वर्यं ज्ञानं ज्ञानमिति लक्ष्यनिर्देशः । शेषं लक्षणम् । संसारसागरात्तारयतीति तारकम् । पूर्वस्मात्प्रातिभाद्विशेषयति- सर्वथाविषयमिति । पर्याया अवान्तरविशेषाः । अत एव विवेकजं ज्ञानं परिपूर्णम् । नास्य क्वचित्किञ्चित्कथञ्चित्कदाचिदगोचर इत्यर्थः । आस्तां तावज्ज्ञानान्तरम्। संप्रज्ञातोऽपि तावदस्यांशः । तस्मादतः परं कि परिपूर्णमित्याह–अस्यैवांशो योगप्रदीपः संप्रज्ञातः । किमुपक्रमः किमवसा- नश्वासावित्याह- मधुमतीमिति । ऋतम्भरा प्रशैव मधु, मोदकारणत्वात् । यथोक्तं प्रज्ञाप्रासादमारुह्येति (द्र० १।४७ भाष्य) ( तद्वती मधुमती। तामुपादाय यावदस्य परिसमाप्तिः सप्तधा प्रान्तभूमिः प्रज्ञा । अत एव विवेकजं ज्ञानं तारकं भवति । तदंशस्य योगप्रदोपस्य तारकत्वादिति ॥ ५४ ॥ तदेवं परम्परया कैवल्यस्य हेतून्सविभूतोन्संयमानुक्त्वा सत्त्वपुरुषान्यताशानं साक्षात्कैवल्यसाधनमित्यत्र सूत्रमवतारयति— प्राप्तेति । विवेकजं ज्ञानं भवतु मा वा भूत् । सत्त्वपुरुषान्यताख्यातिस्तु कैवल्यप्रयोजिकेत्यर्थः । सत्त्वपुरुपयोः शुद्धिसाम्ये कैवल्यमिति । इतिः सूत्रसमाप्तौ । ईश्वरस्य पूर्वोक्तः संयमैर्ज्ञान- क्रियाशक्तिमतोऽनीश्वरस्य वा समनन्तरोक्तेन संयमेन विवेकजज्ञानभांगिन इत- रस्य वानुत्पन्नज्ञानस्य न विभूतिषु काचिदपेक्षास्तीत्याह-न हीति । ननु यद्यनपेक्षिता विभूतयः कैवल्ये, व्यर्थस्तर्हि तासामुपदेश इत्यत आइ-सत्व- -