सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातअ क योगसूत्रम् जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३ ॥ तुल्य योदशलक्षणसारूप्ये जातिभेदोऽन्यताया हेतुर्गौरियं वडवेयमिति । तुल्यदेशजातीयत्वे लक्षणमन्यत्वकरं कालाक्षी गौः स्वस्तिमती गौरिति । द्वयोरामलकयोर्जातिलक्षणसारूप्याद्द शभेदोऽन्यत्वकर इदं पूर्वमिदमुत्तर- मिति । यदा तु पूर्वमामलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेश उपावर्त्यते तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदिति प्रविभागानुपपत्तिः । असंदिग्धेन च तत्त्वज्ञानेन भवितव्यमित्यत इदमुक्तं ततः प्रतिपत्तिर्विवेकजज्ञानादिति । १५२ पा.सू. ५३ ] कथम् ? पूर्वामलकसहक्षणो देश उत्तरामलकसहक्षणाई शाद्भिन्नः । ते चामलके स्वदेशक्षणानुभवभिन्ने । अन्यदेशक्षणानुभवस्तु तयोरन्यत्वे प्रथमं तस्य विषयविशेष उपक्षिप्यते-जातिलक्षणदेशैरन्यतानवच्छेदा- तुल्ययोस्ततः प्रतिपत्तिः । लौकिकानां जातिभेदोऽन्यताया शाप्रकहेतुः । तुल्या जातिर्गोत्वम् । तुल्यश्च देशः पूर्वादिः । कालाक्षीस्वस्तिमत्योर्लक्षणभेदः परमिति | द्वयोरामलकयोस्तुल्यामलकत्वज| तिः । वर्तुलस्वादि लक्षणं तुल्यम् । देशभेदः परमिति। यदा तु योगिज्ञानं जिज्ञासुना केनचित्पूर्वामलकमन्यव्यप्रस्य योगिनो ज्ञातुरुत्तरदेश उपावर्त्यते, उत्तरदेशमामलकं ततोऽपसार्य पिधाय वा तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदिति प्रविभागानुपपत्तिः प्राशस्य लौकिकस्य त्रिप्रमाणोनिपुणस्य असन्दिग्धेन च तत्त्वज्ञानेन भवितव्यम् । विवेकजज्ञानवतो योगिनः संदिग्धत्वानुपपत्तेः । अत उक्तं सूत्रकृता - ततः प्रतिपत्तिः । तत इति न्याचष्टे – विवेकजज्ञानादिति । क्षणतत्क्रमसंयमाज्जातं ज्ञानं कथमामलकं तुल्य जातिलक्षण देशादामलका- न्तराद्विवेचयतीति पृच्छति–कथमिति । उत्तरमाह-पूर्वामलकसहक्षणो देशः पूर्वामलकेनैकक्षणो देशः । तेन सह निरन्तरपरिणाम इति यावत् । उत्तरा- मलकसहक्षणाद्देशादुत्तराम लकनिरन्तरपरिणामाद्भिन्नः । भवतु देशयोर्भेदः किमायातमामलकमेदस्येस्यत आह - ते चामलके स्वदेशक्षणानुभवभिन्ने । स्वदेशसहितो यः क्षणस्तस्यामलकस्य कालकला स्वदेशेन सहौत्तराधर्यरूपपरिणा- मलक्षिता सा स्वदेशक्षणः । तस्यानुभवः प्राप्तिर्वा ज्ञानं वा । तेन भिन्ने आमलके। भयोरामलकयोः पूर्वोत्तराभ्यां देशाभ्यामौत्तराधर्यपरिणामक्षण आसीत्तयोर्देशा- न्तरौतराधर्यपरिणामक्षण विशिष्टत्वमनुभवन्संयमी ते भिन्ने एव प्रत्येति । संप्रति तद्देशपरिणामेऽपि पूर्वभिन्नदेशपरिणामाद्विशिष्टस्य चैतद्देशपरिणामक्षणस्य संयमतः साक्षात्करणात् । तदिदमुक्तम्- अन्यदेशक्षणानुभवस्तु तयोरन्यत्वे हेतुरिति । - 1