१५१ वाचस्पतिकृतटीकायुतभ्यासभाष्यसमेतम् [पा. ३. सु. २ इति बुद्धिसमाहारो मुहूर्ताहोरात्रादयः । स खवल्यं कालो वस्तुशून्यो बुद्धिनर्मिणः शब्दज्ञानानुपातो लौकिकानां व्युत्थितदर्शनानां वस्तुरूपस्व इवावभासते ।। क्षणस्तु वस्तुपतितः क्रमावलम्बी। क्रमश्च क्षणानन्तर्यात्मा । तं काल- विदः काल इत्याचक्षते योगिनः । न च द्वौ क्षगौ सह भवतः । क्रमश्च न द्वयोः सहभुवोः असंभवात्, पूर्वस्मादुत्तरस्य भाविनो यदानन्तयं क्षणस्य स क्रमः । तस्माद्वर्तमान एवैकः क्षणो न पूर्वोत्तर क्षणाः सन्तीति । तस्मा- नास्ति तत्समाहारः । ये तु भूतभाविन क्षणास्ते परिणामान्विता व्याख्येयाः । तेनैकेन क्षणेन कृत्स्नो लोकः परिणाममनुभवति । तत्क्षणोपारूढाः खल्बमी सर्वे धर्माः । तयोः क्षणतत्क्रमयोः संयमात्तयोः साक्षात्करणम् । ततश्च विषकजं ज्ञानं प्रादुर्भवति ।। ५२ ।। तस्य विषयविशेष उपक्षिप्यते- क्षणसमाहारस्यावास्तवत्वात्क्षणतत्क्रमयोरण्यवास्तवत्वं समाहारस्य । नैसर्गिकवैत- ण्डिकबुद्ध अतिशयरहिता लौकिकाः प्रतिक्षण एव व्युत्थितदर्शना भ्रान्ता ये कालमीदृशं वास्तवमभिन्यन्त इति । तत्किं क्षणोऽप्यवास्तवो नेत्याह-क्षणस्तु वस्तुपतितो वास्तव इत्यर्थः । क्रमस्यावलम्बनमवलम्बः, सोऽस्यास्तीति, क्रमेणावलम्ब्यते वैकल्पिकेनेत्यर्थः । क्रमस्य क्षणावलम्बनत्वे हेतुमाह- क्रमश्चेति । क्रमस्यावास्तवत्वे हेतुमाह- न चेति । चो हेत्वर्थे । यस्तु वैजात्यात्सहभावमुपेयात्तं प्रत्याह- क्रमश्च न द्वयोरिति । कस्मादसंभव इत्यत आह-पूर्वस्मादिति । उपसंहरति-तस्मादिति। तत्किमिदानीं शशविषाणायमाना एव पूर्वोत्तरक्षणा नेत्याह – ये विति । अन्विताः साम्येन समन्वागता इत्यर्थः । उपसंहरति-तेनेति । वर्तमानस्यै- वार्थक्रियासु स्वोचितासु सामर्थ्यादिति ॥ ५२ ॥ यद्यप्येतद्विवेकजं ज्ञानं निःशेषभावविषयमित्यग्रे वक्ष्यते, तथाप्यतिसूक्ष्मत्वा- ( १ ) सांख्ययोगविद्यासम्मतं कालस्वरूपमस्मिन् वाक्ये विवृतम् । तदिदं वाक्यं युक्तिभिर्विशदीकृतम्, उदाहरणै: स्वच्छीकृतम्, जडवैज्ञानिकदृष्टया चोप- पादितं स्वामिहरिहरानन्दचरणेन स्वकृते कालदिगविषय के निबन्धे बंगभाषामये। सच निबन्धी मयाऽनूदितः प्रकाशितश्च स बिहारहिन्दी साहित्यसम्मेलनेन - दृश्यतां 'साहित्यम्' ( ७।३, ८।३) ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२५८
दिखावट