पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्या सभाष्यसमेम् [पा. ३.सु. ३६ भोगः पुरुषस्य, दर्शितविषयत्वात् । स भोगप्रत्ययः सस्त्रस्य परार्थ- त्वाद् दृश्यः । यस्तु तस्माद्विशिष्टश्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययस्तत्र संयमात्पुरुष- विषया प्रज्ञा जायते । न च पुरुषप्रत्ययेन बुद्धिसन्त्रात्मना पुरुषो दृश्यते, पुरुष एव तं प्रत्ययं स्वात्मावलम्बनं पश्यति । तथा ह्युक्तम्-विज्ञातारमरे केन विजानीयात् (वृ. २१५/१४; ४/५/१५ ) इति ।। ३५ ।। ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३६ ॥ प्रातिभात्सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम् । श्रावणादिव्यशब्द- तस्य तत्कम्पात्कम्पनारोपः । भोगहेतु माह-दर्शित विषयत्वादिति । असकृद्वया- ख्यातम् (११२; ११४; २।१७ ; २१२३) । ननु बुद्धिसत्त्वमस्तु पुरुषभिन्नम्, भोगस्तु पुंसः कुतोभिद्यत इत्यत आह–स भोगप्रत्ययो भोगरूपः प्रत्ययः सत्त्वस्यातः परार्थत्वाद् दृश्यो भोग्यः । सत्त्वं हि परार्थम्, संहतत्वात् । तद्धर्मश्च भोग इति सोऽपि परार्थः । यस्मै च परस्मा असौ तस्य भोक्तुर्भाग्यः । अथ वानुकूल- प्रतिकूलवेदनीयस्तु मुखदुःखानुभवो भोगः । न चायमात्मानमेवानुकूलयति प्रतिकूलयति वा स्वात्मनि वृत्तिविरोधात् । अतोऽनुकूलनीयप्रतिकूलनीयाथों भोगः। स भोक्तात्मा तस्य दृश्यो भोग्य इति । यस्तु तस्मात्वर|र्थाद्विशिष्ट इति । परार्थादिति पञ्चम्यन्यपदाभ्याहारेण व्याख्याता । स्यादतेत् — पुरुषविषया चेत्प्रज्ञा हन्त भोः पुरुषः प्रशायाः प्रज्ञेय इति प्रशान्तरमेव तत्र तत्रेत्यनवस्थापात इत्यत आह - न च पुरुषप्रत्येयेनेति । अयमभिसन्धिः—चित्या जडः प्रकाश्यते । न जडेन चितिः । पुरुषप्रत्ययस्त्व- चिदात्मा कथं चिदात्मानं प्रकाशयेत् । चिदात्मा त्वपराधीनप्रकाशो जडं प्रका- शयतीति युक्तम् । बुद्धिसत्त्वात्मनेत्यचिद्रूपतादात्म्येन जडत्वमाह । बुद्धिस- त्त्वगतपुरुषप्रतिबिम्बालम्बनात्पुरुषालम्बनं, न तु पुरुषप्रकाशनात्पुरुषालम्बनम् । बुद्धिसत्त्वमेव तु तेन प्रत्ययेन संक्रान्तपुरुषप्रतिबिम्बं पुरुषच्छायापनं चैतन्य- मालम्बत इति पुरुषार्थः । अत्रैव श्रुतिमुदाहरति - तथा युक्तमीश्वरेण विज्ञा- तार मिति । न केनचिदित्यर्थः ॥ ३५ ॥ सच स्वार्थसंयमो न यावत्प्रधानं स्वकार्य पुरुषज्ञानमभिनिवर्तयति तावत्तस्य पुरस्ताद्या विभूतीराधत्ते ताः सर्वा दर्शयति-ततः प्रातिभश्रावणवेदनादर्शा- स्वादवार्ता जायन्ते । तदनेन योगजधर्मानुगृहीतानां मनःश्रोत्रत्वक्चतुर्जि-