पातअळयोगसूत्रम् पां. ३ खूं. ३८ ] श्रवणम् । वेदनांद्दिव्यस्पर्शाधिगमः। आदर्शाद्दिव्यरूपसंवित् । आस्वादा- द्दिव्यरससंवित् । वार्तातो दिव्यगन्धविज्ञानमित्येतानि नित्यं जायन्ते ||३६|| ते समाधावुपसर्गा व्युत्याने सिद्धयः ॥ ३७ ॥ ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गाः, तद्दर्शनप्रत्य- नीकत्वात् । व्युत्थितचित्तस्योपद्यमानाः सिद्धयः ॥ २७ ॥ बन्धकारणशैथिल्यात्प्रचारसंवेदनाच चित्तस्य परशरीरावेशः ॥ ३८ ॥ लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयवशाद् बन्धः प्रतिष्ठेत्यर्थः । तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिबलाद्भवति । प्रचारसंवेदनं च चित्तस्य समाधिजमेव, कर्मबन्धक्षयात्स्त्रचित्तस्य प्रचारसंवेदनाच्च योगी चित्तं स्त्रशरीरान्निष्कृष्य शरीरान्तरेषु निक्षिपति । निक्षिप्तं चित्तं चेन्द्रियाण्य- नुपतन्ति । यथा मधुकरराजानं मक्षिका उत्पतन्तमनूलतन्ति निविशमान- मनुनिविशन्ते, तथेन्द्रियाणि परशरीरावेशे चित्तमनुविधीयन्त इति ॥ ३८ ॥ हाघ्राणानां यथासंख्यं प्रातिभज्ञानदिव्यशब्दाद्यपरोक्षहेतुभावा उक्ताः । भोत्रा- दीनां पञ्चानां दिव्यशब्दाद्युपलम्भकानां तान्त्रिक्यः संज्ञाः श्रावणाद्याः । सुगमं भाष्यम् ।। ३६ ।। कदाचिदात्मविषयसंयमे प्रवृत्तस्तत्प्रभावादमूरर्थान्तरसिद्धीरधिगम्य कृतार्थ- मन्यः संयमाद्विरमेदत आह—ते समाधावुपसर्गा व्युत्थाने सिद्धयः । व्युत्थितचित्तो हि ताः सिद्धीरभिमन्यते, जन्मदुर्गत इव द्रविणकणिकाम पि द्रविणसंभारम् । योगिना तु समाहितचित्तेनोपनताभ्योऽपि ताभ्यो विरन्तव्यम् । अभिसंहिततापत्रयात्यन्तिकोपशमरूपपरमपुरुषार्थः स खल्वयं कथं तत्प्रत्यनी- कासु सिद्धिषु रज्येतेति सूत्रभाष्ययोरर्थः ॥ ३७ ॥ तदेवं ज्ञानरूपमैश्वर्यं पुरुषदर्शनान्तं संयमफलमुक्त्वा क्रियारूपमैश्वर्यं संयम- मफलमाइ–बन्धकारणशैथिल्यात्प्रचारसंवेदनाञ्च चित्तस्य परशरीरावेशः । समाधिबलादिति । बन्धकारण विषयसंयमबलात् । प्राधान्यात्समाधिग्रहणम् । प्रचरत्यनेनास्मिन्वेति प्रचारः । चित्तस्य गमागमाध्वानो नाडयः । त स्मिन्प्रचारे संयमात्तद्वेदनम् । तस्माच्च बन्धकारणशैथिल्यान्न तेन प्रतिबध्यते । अप्रतिबद्धमप्युन्मार्गेण गच्छन्न स्वशरीरादप्रत्यूहं निष्कामति । न च परशरीर- माविशति । तस्मात्तत्प्रचारोऽपि ज्ञातव्यः । इन्द्रियाणि च चित्तानुसारोणि पर शरीरे यथाधिष्ठानं निविशन्त इति ॥ ३८ ॥
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२४५
दिखावट