पा. ३सू. ३५ ] पातञ्जलयोगसूत्रम् यथोदये प्रातिभं नाम तारकम्, तद्विवेकजस्य ज्ञानस्य पूर्वरूपम्, प्रभा भास्करस्य । तेन वा सर्वमेव जानाति योगी प्रातिभस्य ज्ञानस्यो- त्पत्ताविति ॥ ३॥ हृदये चित्तसंवित् ॥ ३४ ॥ यदिदम स्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म तत्र विज्ञानं तस्मिन्संयमा- चित्तसंवित् ॥ ३४ ॥ सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थ संयमात्पुरुषज्ञानम् ॥ ३५ ॥ बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम् । तस्माञ्च सन्त्वात्परिणामिनोऽत्यन्तविधर्मा शुद्धोऽन्यश्चितिमात्ररूपः पुरुषः । तयोरत्यन्तासंकीर्णयोः प्रत्यय विशेषो हि तत्प्रकर्षे प्रसंख्यानोदयपूर्वलिङ्गं यदूहजं तेन सर्वं विजानाति योगी । तच्च प्रसंख्यानसँनिधापनेन संसारात्तारयतीति तारकम् ॥ ३३ ॥ हृदये चित्तसंवित् । हृदयपदं व्याचष्टे- यदिदमस्मिन्ब्रह्मपुरे । बृहत्त्वा- दात्मा ब्रह्म । तस्य पुरं निलयः । तद्धि तत्र विजानाति स्वमिति । दहरं गतं तदेव पुण्डरीकमधोमुखं वेश्म मनसः | चित्तसंवेदनत्वे हेतुमाह - तत्र विज्ञानमिति । तत्र संयमाच्चित्तं विजानाति स्ववृत्तिविशिष्टम् ॥ ३४ ॥ सत्त्व पुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वा- र्थसंयमात्पुरुपज्ञानम् । यत्र प्रकाशरूपस्या तिस्वच्छस्य नितान्ताभिभूतरज स्तमस्तया विवेक ख्यातिरूपेण परिणतस्य बुद्धिसत्त्वस्यात्यन्तिकश्चैतन्यादसं- करस्तन कैव कथा रजस्तमसोर्जडस्वभावयोरित्याशयवान्सूत्रकारः सत्त्वपुरुष- योरित्युवाच । इममेवाभिप्रायं गृहीत्वा भाष्यकारोऽप्याह - बुद्धिसत्त्वं प्रख्याशी- लमिति । न केवलं प्रख्याशीलमात्रम् अपि तु विवेकख्यातिरूपेण परिणतम् । अतो नितान्तशुद्ध प्रकाशतयात्यन्तसारूप्यं चैतन्येनेति संकर इत्यत आह-समा- नेति । सत्त्वेनोपनिबन्धनमविनाभावः संबन्धः समानं सत्त्वोपनिबन्धनं ययो रजस्तमसोस्ते तथोक्ते । वशीकारोऽभिभवः । असंकरमाइ–तस्माञ्चेति । च- कारोऽप्यर्थः । केवलं रजस्तमोभ्यामित्यर्थः । परिणामिन इति वैधर्म्य मपरिणा- मिनः पुरुषादुक्तम् । प्रत्ययाविशेषः शान्तघोरमूढरूपाया बुद्धेश्चैतन्यबिम्बोद्ग्रा- हेण चैतन्यस्य शान्ताद्याकाराध्यारोपश्चन्द्रमस इव स्वच्छसलिलप्रतिबिम्बि
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२४३
दिखावट