पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यास भाष्यसमेतम् [पा. सू. ३३ चन्द्रे ताराव्यज्ञानम् ॥ २७ ॥ चन्द्रे संयमं कृत्वा ताराणां व्यूहं विजानीयात् ॥ २७ ॥ ध्रुवे तद्गतिज्ञानम् ॥ २८ ॥ ततो ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात् । ऊर्ध्वविमानेषु कृत- संयमस्तानि विजानीयात् ॥ २८ ॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ २९ ॥ नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात् । वातपित्तश्लेष्माण- स्त्रयो दोषाः । धातवः सप्त त्वग्लोहितमांसस्नाय्वस्थिमज्जाशुक्राणि, पूर्व पूर्वमेषां बाह्यमित्येव विन्यासः ॥ २९ ॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥ जिह्वाया अधस्तात्तन्तुः। ततोऽधस्तात्कण्ठः । ततोऽधस्तात्कूपः । तत्र संयमात्नुत्पिपासे न बाघेते ।। ३० ।। कूर्मनाड्यां स्थैर्यम् ॥ ३१ ॥ कूपादध उरसि कूर्माकारा नाडी। तस्यां कृतसंयमः स्थिरपदं लभते । यथा सर्पों गोधा चेति ।। ३१ ।। मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३२ ॥ शिरः कपालेऽन्तश्छिद्रं प्रभास्वरं ज्योतिः, तत्र संयमं कृत्वा सिद्धानां द्यावापृथिव्योरन्तरालचारिणां दर्शनम् ॥ ३२ ॥ प्रातिभाद्वा सर्वम् ॥ ३३ ॥ भुवनं प्रकाशयति । न चैवमन्यत्रापि प्रसङ्गः । तत्संयमस्य तावन्मात्रोद्घाटन- सामर्थ्यादिति सर्वमवदातम् ॥ २६ ॥ चन्द्रे ताराव्यूहज्ञानम्। ध्रुवे तद्गतिज्ञानम् । नाभिचक्रे कायव्यूह- ज्ञानम् । कण्ठकूपे क्षुत्पिपासानिवृत्तिः । कूर्मनाडयां स्थैर्यम् । तत्र तत्र जिज्ञासायां योगिनस्तत्र तत्र संयमः । एवं क्षुत्पिपासानिवृत्तिहेतुः संयमः स्थैर्य- हेतुश्च सूत्रपदैरुपदिष्टो भाष्येण च निगदव्याख्यातेन व्याख्यात इति न व्याख्यातः ॥ २७ ॥ २८ ॥ २६ ॥ ३० ॥ ३१ ॥ मूर्धज्योतिषि सिद्धदर्शनम् । मूर्धशब्देन सुषुम्ना नाडी लक्ष्यते तत्र संयम इति ॥ ३२ ॥ प्रातिभाद्वा सर्वम् । प्रतिभोहः । तद्भवं प्रातिभम्। प्रसंख्यानहेतुसंयमवतो