बाचस्पतिकृनटीकायुतम्यासमाष्यसमेतम् [ पा.सू. २५ बलेषु हस्तिबलादीनि ॥ २४ ॥ हस्तिबले संयमाद् हस्तिचलो भवति । वैनतेयत्रले संयमाद्वैनतेयबलो भवति । वायुबले संयमाद्वायुबलो भवतीत्येवमादि ॥ २४ ॥ १३१ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ २५ ॥ ज्योतिष्मती प्रवृत्तिरुक्ता मनसः (११३६) । तस्या य आलोकस्तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वार्थे विन्यस्य तमर्थमविगच्छति ।। २५ ।। भुवनज्ञानं सूर्ये संयमात् ॥ २६ ॥ तत्प्रस्तारः सप्तलोकाः । तत्रावीचेः प्रभृति मेरुपृष्ठं यात्रदित्येवं भूर्लोकः । मेरुपृष्ठादारभ्या ध्रुाद् ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः । ततः परः स्वर्लोकः पञ्चविधो, माहेन्द्रस्तृतीयो लोकः । चतुर्थः प्राजापत्यो महर्लोकः । त्रिविधो ब्राह्मः । तद्यथा- जनलोकस्तपोलोकः सत्यलोक इति । ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान । माहेन्द्रश्च स्वरित्युक्तको दिवि तारा भुवि प्रजाः ॥ इति संग्रहश्लोकः । तत्रावीचेरुपर्युपरि निविष्टाः पण्महानरकभूमयो घनसलिलानलानिला- काशतमः प्रतिष्ठा महाकालाम्बरीषरौरवमहारौरवकालसूत्रान्धतामिस्राः । यत्र स्त्रकर्मोपार्जितदुःखवेदनाः प्राणिनः कष्टमायुर्दीर्घकालमाक्षिप्य जायन्ते । ततो महातलरसातलातलसुतल वितलतलातल पातलाख्यानि सप्त पातालानि । भूमिरियमष्टमी सप्तद्वीपा वसुमती, यस्याः सुमेरुर्मध्ये पर्वतराजः काञ्चनः । तस्य राजतवैदूर्यस्फटिक हेममणिमयानि शृङ्गाणि । तत्र वैदूर्य- प्रभानुरागा नीलोत्पलपत्रश्यामो नभसो दक्षिणो भागः । श्वेतः पूर्वः । बलेप हस्तिबलादीनि । यस्य बले संयमस्तस्य बलं लभत इति ॥ २४ ॥ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यत्र हित विप्रकृष्टज्ञानम् । सूक्ष्मे व्यवहिते विप्रकृष्टे वार्थे संयमनं विन्यस्य तमधिगच्छति ॥ २५ ॥ भुवनज्ञानं सूर्य संयमात् । आ ध्रुवादितो मेरुपृष्ठात् । तदेवमनेन संग्रहश्लोकान्तेन संक्षेपतः सप्त लोकानुग्न्यस्य विस्तरेणा- तत्रावीचेरिति । घनशब्देन पृथिव्युच्यते । भूमिः स्थानमित्यर्थः । एते महा- नरका अनेकोपनरकपरिवारा बोद्धव्याः । एतानेव नामान्तरेणोपसंहरति- महाकालेति । तस्य सूर्यप्रचाराद्रात्रिन्दिवं लग्नमिव विवर्तते । यमेवास्य भागं सूर्यस्त्यजति
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२३८
दिखावट