पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. ३सू. २६ ] पातम्जलयोगसूत्रम् १३२ स्वच्छः पश्चिमः । कुरण्डकाभ उत्तरः । दक्षिणपार्श्वे चास्य जम्बूः। यतोऽयं जम्बूद्वीपः । तस्य सूर्यप्रचाराद्रात्रिन्दिवं लग्नमिव विवर्तते । तस्य नीलश्वेत- शृङ्गवन्त उदीचीनास्त्रयः पर्वता द्विसाहस्रायामाः । तदन्तरेषु त्रीणि वर्षाणि नवनवयोजनसहस्राणि रमणकं हिरण्मयमुत्तराः कुरव इति । निषधहेमकूट- हिमशैला दक्षिणतो द्विसहस्रायामाः । तदन्तरेषु त्रीणि वर्षाणि नवनव- योजनसहस्राणि हरिवर्षं किंपुरुषं भारतमिति । सुमेरोः प्राचीना भद्राश्वाः माल्यवत्सीमानः । प्रतीचीनाः केतुमालाः गन्धमादनसीमानः । मध्ये वर्षमि- लावृतम् । तदेतद्योजनशतसहस्रं सुमेरोर्दिशि दिशि तदर्धेन व्यूढम् । स खल्वयं शतसहस्राया मो जम्बूद्वीपस्ततो द्विगुणेन लवणोद्धिना वलयाकृतिना वेष्टितः । ततश्च द्विगुणा द्विगुणाः शाककुशक्रौञ्चशाल्मल- गोमेधपुष्करद्वीपाः समुद्राश्च सपेपराशिकल्पाः सविचित्रशैलावतंसा इक्षुरससुरासर्पिर्दधिमण्ड क्षीरस्वादूदकाः सप्तसमुद्रपरिवेष्टिता वलयाकृतयो लोकालोकपर्वतपरिवाराः पञ्चाशद्योजनकोटिपरिसंख्याताः । तदेतत्सर्व सुप्रतिष्ठितसंस्थानमण्डमध्ये व्यूढम् । अण्डं च प्रधानस्याणुरवयवो यथा- काशे खद्योत इति । तत्र पाताले जलधौ पर्वतेष्येतेषु देवनिकाया असुरगन्धर्वकिंनरकिं पुरुषयक्षराक्षसभूतप्रेतपिशाचापस्मारकाप्सरोब्रह्मराक्षसकूष्माण्डविनायकाः प्रतिवसन्ति । सर्वेषु द्वीपेषु पुण्यात्मानो देवमनुष्याः । सुमेरुस्त्रिदशानामुद्यानभूमिः । तत्र मिश्रवनं नन्दनं चैत्ररथं सुमानस- मित्युद्यानानि, सुधर्मा देवसभा, सुदर्शनं पुरम्, वैजयन्तः प्रासादः। तत्र रात्रिः । यमेव भागमलंकरोति तत्र दिनमिति । सकलजम्बूद्वीप- परिमाणमाह -- तदेतद्योजनशतसहस्रम् । किंभूतं योजनानां शतसहस्र- मित्याह —सुमेरोर्दिशि दिशि तदर्धेन पञ्चाशद्योजनसहस्रेण व्यूढं संक्षिप्तम् । यतोऽस्य मध्यस्थः सुमेरुः समुद्राश्च सर्षपराशिकल्पा इति द्विगुणा द्विगुणा इति संबन्धः । यथा सर्षपराशिर्न ब्रीहिराशिरिवोच्छितो नावि भूमिसमस्तथा समुद्रा अपीत्यर्थः । विचित्रैः शैलैरवतंसैरिव सह वर्तन्त इति सविचित्रशैलाव- तंसा द्वीपाः । तदेतत्सर्वं सद्वीपविपिननगनगरनीरधिमालावलयं लोकालोकपरिवृतं विश्वम्भरामण्डलं ब्रह्माण्डमध्ये व्यूढं संक्षिप्तं, सुप्रतिष्ठितं संस्थानं संनिवेशो यस्य तत्तथोक्तम् । ये यत्र प्रतिवसन्ति तत्र तान्दर्शयति- 1 - तत्र पाताल इति । सुमेरोः संनिवेशमाह - सुमेरुरिति ।