पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा.सू. २३] योगसूत्रम् १३० समन्ततो युक्तः क्षेपीयसा कालेन दहेत्तथा सोपक्रमम् । यथा वा स एवा- ग्निस्तृणराशौ क्रमशोऽवयवेषु न्यस्तश्चिरेण दहेत्तथा निरुपक्रमम् । तदैकभवि- कमायुष्करं कर्म द्विविधम्-सोपक्रमं निरुपक्रमं च । तत्संयमादपरान्तस्य प्रायणस्य ज्ञानम् । अरिष्टेभ्यो वेति । त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिक्रमाधिदैविकं च। तत्राध्यात्मिकं घोषं स्वदेहे पिहितकर्णो न शृणोति, ज्योतिर्वा नेत्रेऽ- वष्टब्धे न पश्यति । तथाधिभौतिकं यमपुरु गन्पश्यति पितनतीतानकस्मा- त्पश्यति । तथाधिदैत्रिकं स्वर्गमकस्मात्सिद्धान्वा पश्यति, विपरीतंवा सर्व- मिति । अनेन वा जानात्यपररान्तमुपस्थितमिति ॥ २२ ॥ मैत्र्यादिषु बलानि ॥ २३ ॥ मैत्री-करुणा-मुदितेति तिस्रो भावनाः । तत्र भूतेषु सुखितेषु मैत्रीं भाव- यित्वा मैत्रीबलं लभते। दुःखितेषु करुणां भावयित्वा करुणाबलं लभते । पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते । भावनातः समाधिर्यः स संयमः, ततो बलान्यवन्ध्यवीर्याणि जायन्ते । पापशीलेषूपेक्षा न तु भावना । ततश्च तस्यां नास्ति समाधिरित्यतो न बलमुपेक्षातः, तत्र संयमा- भावादिति ॥ २३ ॥ परान्तं महाप्रलयमपेक्ष्यापरान्तो मरगम् । तस्मिन्कमणि धर्माधर्मयोः संयमादप- रान्तज्ञानम् । ततश्च योगी सो क्रममात्मनः कर्म विज्ञाय बहून्कायान्निर्माय सहसा फलं भुक्त्वा स्वेच्छया म्रियते । प्रासङ्गिकमाह-अरिष्टेभ्यो वा । अरिवत्त्रासयन्तीत्यरिष्टानि त्रिविधानि मर- णचिह्नानि । विपरीतं वा सर्व माहेन्द्रजालादिव्यतिरेकेण ग्रामनगरादि स्वर्ग- मभिमन्यते, मनुष्यलोकमेव देवलोकमिति ॥ २२ ॥ मैत्र्यादिषु बलानि । मैत्र्यादिषु संयमान्मैत्र्यादिबलान्यस्य भवन्ति । तत्र मैत्रीभावनातो बलं येन जीवलोकं सुखाकरोति । ततः सर्वहितो भवति । एवं करुणाबलात्प्राणिनो दुःखाद् दुःखहेतोर्वा समुद्धरति । एवं मुदिताबलाजीवलो- कस्य माध्यस्थ्यमाधत्ते । वक्ष्यमाणौपयिकं भावनाकारणत्वं समाधेराह - भाव- नातः समाधिर्यः स संयमः । यद्यपि धारणाध्यानसमाधित्रयमेव संयमो न समाधिमात्रं तथापि समाध्यनन्तरं कार्योत्पादात्समाधेः प्राधान्यात्तत्र संयम उपचरितः । क्वचिद्भावना समाधिरिति पाठः । तत्र भावनासमाधी समूहस्य संय- मस्यावयवौ हेतू भवतः। वीर्यं प्रयत्नः । तेन मैत्र्यादिबलवतः पुंसः सुखितादिषु परेषां कर्तव्येषु प्रयत्नोऽबन्ध्यो भवतीति । उपेक्षौदासीन्यम् । न तत्र भावना नापि सुखितादिवद्भाव्यं किञ्चिदस्तीति ॥ २३ ॥