वाचस्पतिकृतटीकायुतव्यास भाग्यसमेतम् [ पा. ३ सू. २२ दालम्बनं तद्योगिचित्तेन नालम्बनीकृतम् । परप्रत्ययमात्रं तु योगिचित्तस्या- लम्बनीभूतमिति ।। २० ।। कायरूपसंयमात्तद्ग्राह्य शक्तिस्तम्भे चक्षुःप्रकाशा- संप्रयोगेऽन्तर्धानम् ॥ २१ ॥ १२९ कायस्य रूपे संयमाद् रूपस्य या ग्राह्या शक्तिस्तां प्रतिष्टनाति । ग्राह्यशक्ति- स्तम्भे सति चक्षुःप्रकाशासंप्रयोगेऽन्तर्धानमुत्पद्यते योगिनः । एतेन शब्दा- अन्तर्धानमुक्तं वेदितव्यम् ।। २१ ।। सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्त- ज्ञानमरिष्टेभ्यो वा ॥ २२ ॥ आयुर्विपाकं कर्म द्विविधम् - सोपक्रमं निरुपक्रमं च । तत्र यथाद्रं वस्त्रं वितानितं लघीयसा कालेन शुञ्येत्तथा सोपक्रपम् । यथा च तदेव संपिण्डितं चिरेण संशुष्येदेवं निरुपक्रमम् । यथा वाग्निः शुष्के कक्षे मुक्तो वातेन परचित्तमात्र पिषय इत्यभिप्रायः ॥ २० ॥ काय रूप संयमात्तग्राह्यशक्तिस्तम्भे चतुःप्रकाशासंप्रयोगेऽन्तर्धानम् । पञ्चात्मकः कायः । स च रूग्वत्त्या चाक्षुषो भवति । रूपेण हि कायश्च तद्रूपं च चक्षुर्ब्रहण कर्मशक्तिमनुभवति । तत्र यदा रूपे संयमविशेषो योगिना क्रियते तदा रूपस्य ग्राह्यशक्ती रूपवत्कायप्रत्यक्षताहेतुः स्तम्भ्यते । तस्माद् ग्राह्यशक्ति- स्तम्मे सत्यन्तर्धानं योगिनः । ततः परकीय चक्षुर्जनितेन प्रक शेन ज्ञानेनासंप्रयोगः चक्षुर्ज्ञानाविषयत्वं योगिनः कायस्येति यावत् । तस्मिन्कर्तव्येऽन्तर्धानं कारण- मित्यर्थः । एतेनेति । कायशब्दस्पर्शरसगन्धसंयमात्तग्राह्यशक्तिस्तम्मे धोत्र- त्वग्रसनघ।णप्रकाशासंप्रयोगे तदन्तर्धानमिति सूत्रमूहनीयम् ।। २१ ।। सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा । आयुर्विपाकं च कर्म द्विविधं सोपक्रमं निरुपक्रमं च । यत्खल्वैकभविकं कर्म जात्यायुर्भोगहेतुस्तदायुर्विपाकम् । तच्च किञ्चित्कालानपेक्षमेव भोगदानाय प्र स्थित दत्तबहुभोगमल्पावशिष्टफलं प्रवृत्तव्य पारं केवलं तत्फलस्य सहसा भोक्तु- मेकेन शरीरेणाशक्यत्वाद् विलम्बते तदिदं सोपक्रमम् । उपक्रमो व्यापारस्तत्सद्दि- तमित्यर्थः । तदेव तु दत्तस्तोकफलं तत्कालमपेक्ष्य फलदानाय व्याप्रियमाणं कादाचित्कमन्दव्यापारं निरुपक्रमम् । एतदेव निदर्शनाभ्यां विशदयति- तत्र यथेति । अत्रैवातिवैशद्याय निदर्शनान्तर दर्शयदि - यथा वानिरिति । ६ मो० सू०
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२३६
दिखावट