पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतम्यासभाष्यसमेतम् [ पा. ३सू. १७ स्यार्थस्य वाचक इति । संकेतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्या- त्मको, योऽयं शब्दः सोऽयमर्थो योऽयमर्थः सोऽयं शब्द इत्येव मितरेतराध्यासरूपः संकेतो भवतीति । एवमेते शब्दार्थप्रत्यया इतरेतराव्या- सात्संकीर्णा गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानम् । य एषां प्रविभागज्ञः स सर्ववित् । १२५ सर्वपदेषु चास्ति वाक्यशक्तिः, वृक्ष इत्युक्तेऽस्तीति गम्यते । न सत्तां पदार्थो व्यभिचरतीति । तथा न ह्यसाधना क्रियास्तीति । न्तर्यक्रम विशेषोऽनुसंहार एकबुद्धथ पग्रह एतस्यार्थस्य गोस्वादेर्वाचक इति । ननु यद्येतस्यार्थस्यायं शब्दो वाचक इति संकेतो, इन्त भो० शब्दार्थयोनेंतरेतरा- ध्यासस्तहींत्यत आह—संकेत स्त्विति । स्मृतावात्मा स्वरूपं यस्य स तथोक्तः । न हि कृत इत्येव संकेतोऽर्थमवधारयत्यपि तु स्मर्यमाणः । एतदुक्तं भवति- अभिन्नाकार एव संकेते कथञ्चिद्भेदं परिकल्प्य षष्ठी प्रयुक्तेति । य एषां प्रवि- भागज्ञः स तत्र संयमे भवति सर्ववित्सर्वभूतरुतज्ञ इति । तदेवं कल्पितवर्णभागमेकमनवयवं पदं व्युत्पाद्य कल्पितपदविभागं वाक्य- मेकमनवयवं व्युत्पादयितुमाह - सर्वपदेषु चास्ति वाक्यशक्तिरिति । अयम- भिसंधिः– परप्रत्यायनाय शब्दः प्रयुज्यते । तत्र तदेव च परं प्रति प्रतिपादयि- तव्यं यत्तैः प्रतिपित्सितम् । तदेव तैः प्रतिपित्सितं यदुपादानादिगोचरः । न च पदार्थमात्रं तद्गोचरः किं तु वाक्यार्थ इति वाक्यार्थपरा एव सर्वे शब्दाः। तेन स एव तेषामर्थः । अतो यत्रापि केवलस्य पदस्य प्रयोगस्तत्रापि पदान्तरेण सहै- कीकृत्य ततोऽथ गम्यते, न तु केवलात् । कस्मात् ? तन्मात्रस्यासमर्थ्यात् । तथा च वाक्यमेव तत्र तत्र वाचकं न तु पदानि । तद्भागतया तु तेषामप्यस्ति वाक्या- र्थवाचकशक्तिः पदार्थ इव पदभागतया वर्णानाम् । तेन यथा वर्ण एकैकः सर्वपदार्थाभिधानशक्तिप्रचित एवं पदमप्येकैकं सर्ववाक्यार्थाभिधानशक्तिप्रचि तम् । तदिदमुक्तम् – सर्वपदेषु चास्ति वाक्यशक्तिः । वृक्ष इत्युक्तेऽस्तीति गम्यते । आध्याहृतास्तिपदसहितं वृक्ष इति पदं वाक्यार्थे वर्तत इति तद्भाग- त्वाद्वृक्षपदं तत्र वर्तत इत्यर्थः । कस्मात्पुनरस्तीति गम्यत इत्यत आह --न सत्तां पदार्थो व्यभिचरतीति। लोक एव हि पदानामर्थावधारणोपायः । स च केवलं पदार्थमस्त्यर्थेनाभिसमस्य सर्वत्र वाक्यार्थीकरोति । सोऽयमव्यभिचारः सत्तया पदार्थस्य । अत एव शब्दवृत्तिविदां व्यवहारोऽयं यत्रान्यत्क्रियापदं नास्ति तत्र- स्तिर्भवन्तीपरः प्रयोक्तव्य इति ।