पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातञ्जलयोगसूत्रम्ं पा. ३सू. १७ ] प्रयत्नाक्षिप्तमभागमक्रममवर्ण बौद्धमन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्णैरेवाभिधीयमानैः श्रूयमाणैश्च श्रोतृभिरनादिवाग्व्यव- हारवासनानुविद्धया लोकबुद्धया सिद्धवत्संप्रतिपत्त्या प्रतीयते । तस्य संकेबुद्धितः प्रविभागः । एतावतामेवंजातीयकोऽनुसंहार एक- प्रयत्नः । स चोपक्रमतः सर इतिपदव्यक्तिलक्षणफलावच्छिन्नः पूर्वापरीभूत एकः तदाक्षिप्तं भागानां सादृश्योपधानभेदकल्पितानां परमार्थसतामभावादभागम् । अत एव पूर्वापरीभूतभागाभावादक्रमम् । ननु वर्णाः पूर्वापरीभूतास्ते चास्य भागा इति कथमक्रममभागं चेत्यत आह-अवर्णमिति । न ह्यस्य वर्णाः भागाः, किंतु साह श्योपधानभेदात्पदमेव तेन तेनाकारेणापरमार्थसता प्रथते । न हि मणिकृपाणदर्प- णादिवर्तीनि मुखानि मुखस्य परमार्थसतोऽवयवा इति । बौद्धमनुसंहारबुद्धौ विदि- तमन्त्यवर्णप्रत्ययस्य व्यापारः संस्कारः पूर्ववर्णानुभवजनितसंस्कारसहितः। तेनो- पस्थापितं विषयीकृतम् । वर्णानुभवतत्संस्काराणां च पदविषयत्वमुपपादितमधु- स्तात् । स्यादेतत्-अभागमक्रममवर्णं चेत्पदतत्त्वं कस्मादेवंविधं कदाचिन्न प्रथते । न हि लाक्षारसाव सेको धानापादितारुणभावः स्फटिकमणिस्तदपगमे स्वच्छध- बलो नानुभूयते । तस्मात्पारमार्थिका एव वर्णा इत्यत आह–परत्रेति । प्रति पिपादयिषया वर्णैरेवाभिधीयमानैरुच्चार्यमाणैः श्रूयमाणैश्च श्रोतृभिरनादियोंऽयं वाग्व्यवहारो विभक्तवर्णपदनिबन्धनस्तजनिता वासना साप्यनादिरेव । तदनु- विद्धया तद्वासितया लोकबुद्धया विभक्तवर्णरचितपदावगाहिन्या सिद्धवत्परमा- र्थवत्संप्रतिपत्त्या संवादेन वृद्धानां पदं प्रतीयते । एतदुक्तं भवति–अस्ति कश्चि दुपाधिर्य उपधेयेन संयुज्यते वियुज्यते च । यथा लाक्षादिः । तत्र तद्वियोगे स्फटिकः स्वाभाविकेन स्वच्छधवलेन रूपेण प्रकाशत इति युज्यते । पदप्रत्ययस्य तु प्रयत्नभेदोपनीतध्वनिमेदादन्यतोऽनुत्पादात्तस्य च तदा सादृश्यदोषदूषिततया वर्णात्मनैव प्रत्ययजनकत्वमिति कुतो निरुपाधिनः पदस्य प्रथा | यथाहुः- ध्वनयः सदृशात्मानो विपर्यासस्य देतवः । उपलम्भकमेतेषां विपर्यासस्य कारणम् ॥ उपायत्वाच्च नियतः पददर्शितदर्शिनाम् । ज्ञानस्थैव च बाधेयं लोके ध्रुवमुपप्लवः || इति । यतः पदात्मा विभक्तवर्णरूषितः प्रकाशतेत स्थूलदर्शी लोको वर्णानेव पद- मभिमन्यमानस्तानेव प्रकारभेदभाजोऽर्थमेदे संकेतयतीत्याह–तस्येति । तस्य पदस्याजानत एकस्यापि संकेतबुद्धितः स्थूलदर्शिलोकहिताय वर्णात्मना वि भागः । विभागमाइ – एतावतां न न्यूनानामधिकानां वा, एवंजातीयको नैर-