पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२३ वाचस्पतिकृतटीकायुतव्यासमाथ्यसमेतम् एते सर्वाभिधानशक्तिपरिवृता गकारौकारविर्जनीयाः द्योतयन्तीति । [पा. ३ सू. १७ सास्नादिमन्तमर्थं तदेतेषामर्थसंकेतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धि- निर्भासस्तत्पदं वाचकं वाच्यस्य संकेत्यते । तदेकं पदमेकबुद्धिविषयमेक- न शक्ती निर्धारयितुं स्वभागिनं गोपदस्फोटमिति गकारेण विशिष्टो निर्धारयति । असहभाविनामपि च संस्कारद्वारेणास्ति सहभाव इति विशेषणविशेष्यभावो- पपत्तिः । न च भिन्नविषयत्वं संस्कारयोर्भागद्वयविषययोरनुभवयोस्तजन्मनोश्च संस्कारयोरेकपदविषयत्वात् । केवलभागानुभवेन पदमव्यक्तमनुभूयते । अनुसंहार- घिया तु भागानुभवयोनिसंस्कारलब्धजन्मना व्यक्तमिति विशेषः । अव्यक्ता- नुभवाश्च प्राञ्चः संस्काराधानक्रमेण व्यक्तमनुभवमादधाना दृष्टा यथा दूराद्वन- स्पतौ हस्तिप्रत्यया अव्यक्ता व्यक्तवनस्पतिप्रत्ययहेतवः । न चेयं विधा वर्णा- नामर्थंप्रत्यायने संभविनी । नो खलु वर्णाः प्रत्येकमव्यक्तमर्थप्रत्ययमादध- त्यन्ते व्यक्तमिति शक्यं वक्तुम् । प्रत्यक्षज्ञान एव नियमाद्वयक्ताव्यक्तत्वस्य । वर्णाधेयस्त्वर्थप्रत्ययो न प्रत्यक्षः । तदेष वर्णेभ्यो जायमानः स्फुट एव जायेत न वा जायेत न त्वस्फुटः । रफोटस्य तु ध्वनिव्यङ्गयस्य प्रत्यक्षस्य सतः स्फुटा- स्फुटत्वे कल्प्येते इत्यसमानम् । एवं प्रत्येकवर्णानुभव जनित संस्कारसहितश्रोत्र- लब्धजन्मन्यनुसंहारबुद्धौ संहता वर्णा एकपदस्फोटभावमापन्नाः प्रयत्नवि- शेषव्यङ्गयतया प्रयत्नविशेषस्य च नियतक्रमापेक्षतया क्रमस्यान्यत्वे तदभि- व्यञ्जकप्रयत्नविशेषाभावेन तदभिव्यक्त्यभावप्रसङ्गात्क्रमानुरोधिनोऽर्थसंकेतेनाव- च्छिन्नाः, संकेतावच्छेदमेव लौकिकं सभागपद विषयं दर्शयन्ति, इयन्तो द्वित्रास्त्रि- चतुराः पञ्चषा वा एते सर्वाभिधानशक्तिपरिवृता गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थमवद्योतयन्तीति । तत्किमिदानीं संकेतानुसारेण वर्णानामेव वाचकत्वम् । तथा च न पदं नाम किञ्चिदेकमित्यत आह—तदेतेषामिति । ध्वनिनिमित्तः क्रमो ध्वनिक्रमः । उपसंहृतो ध्वनिक्रमो येषु ते तथोक्ताः । बुद्धया निर्मास्यते प्रकाश्यते इति बुद्धिनिर्भासः । संकेतावच्छिन्नाः स्थूलदर्शिलोकाशयानुरोधेन गकारौकार- विसर्जनीया इत्युक्तम् । गकागदीनामपि तद्भागतया तादात्म्येन वाचकत्वात् । प्रतीत्यनुसारतस्त्वेकमेव पदं वाचकमित्यर्थः । एतदेव स्पष्टयति—तदेकं पदं लोकबुद्धय़ा प्रतीयत इति सम्बन्धः । कस्मादेकमित्यत आह - एकबुद्धिविषयम् । गौरित्येकं पदमित्येकाकाराया बुद्धेविषयो यतस्तस्मादेकम् । तस्य व्यञ्जकमाह- एकप्रयत्नाक्षिप्तमिति । रस इतिपदव्यञ्जकात्प्रयत्नाद्विलक्षणः सरं इतिपदव्यञ्जकः C