१२६ पा. ३सू. १७ ] पातञ्जलयोगसूत्रम् तथा च पचतीत्युक्ते सर्वकारकाणामाक्षेपः । नियमार्थोऽनुवादः कर्तृकरण- कर्मणां चैत्राग्नितण्डुलानामिति । दृष्टं च वाक्यार्थे पदरचनं श्रोत्रियश्छन्दोऽ धीते (द्र० अष्टाध्यायी ५१२१८४), जीवति प्राणान्धारयति (घा.पा. ११३७५)। तत्र वाक्ये पदपदार्थाभिव्यक्तिस्ततः पदं प्रविभज्य व्याकरणीयं क्रिया- वाचकं वा कारकवाचकं वा । अन्यथा भवत्यश्वोऽजापय इत्येवमादिषु नामाख्यातसारूप्यादनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेतेति । तेषां शब्दार्थप्रत्ययानां प्रविभागः । तद्यथा श्वेतते प्रासाद इति क्रियार्थः, श्वेतः प्रासाद इति कारकार्थः शब्दः । क्रियाकारकात्मा तदर्थः प्रत्ययश्च । - क्रियामेदाव्यभिचारि प्रातिपदिकमुक्त्वा क्रियाभेदं कारकाव्यभिचारिणं दर्शयति — तथा च पचतीत्युक्त इति । पचतीत्युक्ते हि कारकमात्रस्य तदन्वययोग्यस्यावगमादन्यव्यावृत्तिपरस्तद्भेदानामनुवादः । तदेवं भेद एव वाक्यार्थ इति । तथानपेक्षमपि पदं वाक्यार्थे वर्तमानं दृश्यत इति सुतरामस्ति वाक्यशक्तिः पदानामित्याह दृष्टं चेति । न चैतावतापि श्रोत्रियादिपदस्य स्वतन्त्रस्यैवंविधार्थप्रत्यायनं न यावदस्त्यादिभिरभिसमासोऽस्य भवति । तथा चास्यापि वाक्यावयवत्वात्कल्पितत्वमेवेति भावः । स्यादेतत्-पदानामेव चेद्वाक्य- शक्तिः कृतं तर्हि वाक्येन । तेभ्य एव तदर्थावसायादित्यत आह-तत्र वाक्य इति । उक्तमेतन्न केवलात्पदात्पदार्थः प्रतिपित्सितः प्रतीयते न यावदेतत्पदान्त- रेणाभिसमस्थत इति । तथा वाक्यात्पदान्यपोद्धृत्य कल्पितानि वाक्यार्थाच्चापो- द्धृत्य तदेकदेशं कारकं क्रियां वा तत्पदं प्रकृत्यादिविभागकल्पनया व्याकरणी- यमन्वाख्येयम् । किमर्थं पुनरेतावता क्लेशेनान्वाख्यायत इत्यत आह - अन्य - थेति। घटो भवति, भवति भिक्षां देहि, भवति तिष्ठतीति नामाख्यातयोश्च सा- म्यात् । एवमश्वस्त्वमश्वो यातीति । एवमजापयः पिब, अजापयः शत्रूनिति । नामाख्यातसारूप्यादनिर्ज्ञातं नामत्वेनाख्यातत्वेन वान्वाख्यानाभावे निष्कृष्या- ज्ञातं कथं क्रियायां कारके वा व्याक्रियेत । तस्माद्वाक्यात्पदान्यपोद्धृत्य व्याख्या- तव्यानि । न त्वन्वाख्यानादेव परमार्थिको विभागः पदानामिति । तदेवं शब्दरूपं व्युत्पाद्य शब्दार्थप्रत्ययानां संकेतापादितसंकराणामसंकरम- ख्यातुमुपक्रमते–तेषां शब्दार्थप्रत्ययानां प्रविभागः । तद्यथा श्वेतते प्रासाद इति क्रियार्थः शब्दः । स्फुटतरो ह्यत्र पूर्वापरीभूतायाः क्रियायाः साध्यरूपायाः सिद्धरूपः क्रियार्थः श्वेतत इति भिन्नः शब्दः । यत्रापि शब्दार्थयोः सिद्धरूपत्वं तत्रा- प्यर्थादस्ति शब्दस्य भेद इत्याह -श्वेतः प्रासाद इति कारकार्थः शब्द इति । अभि- हितत्वाच्च कारकविभक्तेरभावः । अथं विभजते-क्रियाकारकात्मा तदर्थ इति । 20
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२३३
दिखावट