सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३ बाचस्पतिकृतटीकायुतम्यासभाष्यसमेतम् [पा. ३ सू. १३ संसर्गाच्चास्य सौम्यं सौक्ष्म्याच्चानुपलब्धिरिति । लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतो ऽतीतलक्षणयुक्तो ऽनागतवर्तमा- नाभ्यां लक्षणाभ्यामवियुक्तः । तथानागतोऽनागतलक्षणयुक्तो वर्तमानाती- ताभ्यां लक्षणाभ्यामवियुक्तः । तथा वर्तमानो वर्तमानलक्षणयुक्तोऽतीतानाग- ताभ्यां लक्षणाभ्यामत्रियुक्त इति । यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति । अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगादध्वसंकरः प्राप्नोतीति परैर्दोषश्चोद्यत इति । तस्य परिहारः- धर्माणां धर्मत्वमप्रसाध्यम् । सति च धर्मत्वे लक्षणभेदोऽपि वाच्यो, न वर्तमानसमय एवास्य धर्मत्वम् । एवं हि न चित्तं रागधर्मकं स्यात्क्रोधकाले रागस्यासमुदाचारादिति । किञ्च, त्रयाणां लक्षणानां युगपदेकस्यां व्यक्तौ नास्ति संभवः । क्रमेण तु स्वव्यञ्जकाञ्जनस्य भावो भवेदिति । उक्तं च-रूपातिशया वृत्त्यतिशयाश्च स्यात् । किं तु कथञ्चिन्नित्यः । तथा च परिणामीति सिद्धम् । एतेन मृत्पिण्डाद्यव- स्थासु कार्याणां घटादीनामनागतानां सत्त्वं वेदितव्यम् । स्यादेतत् –अपेतमपि चेदस्ति कस्मात्पूर्ववन्नोपलभ्यत इत्यत आह—संसर्गात्स्वकारणलयात्सौक्ष्म्यं दर्शनानर्हत्वं ततश्चानुपलब्धिरिति । तदेवं धर्मपरिणामं समर्थ्य लक्षणपरिणाममपि लक्षणानां परस्परानुगमनेन समर्थयते–लक्षणपरिणाम इति । एकैकं लक्षणं लक्षणान्तराभ्यां समनुगत- मित्यर्थः । नन्वेकलक्षणयोगे लक्षणान्तरे नानुभूयेते । तत्कथं तद्योग इत्यत आह यथा पुरुष इति । न ह्यनुभवाभावः प्रमाणसिद्धमपलपति । तदुत्पाद एव तत्र तत्सद्भावे प्रमाणम् । असत उत्पादासंभवान्नरविषाणवदिति । परोक्तं दोषमुत्थापयति – अत्र लक्षणपरिणाम इति । यदा धर्मों वर्तमानस्त- दैव यद्यतीतोऽनागतश्च तदा त्रयोऽप्यध्वानः संकीर्येरन् । अनुक्रमेण चाध्वनां भावे ऽसदुत्पादप्रसङ्ग इति भावः परिहरति —तस्य परिहार इति । वर्तमानतैव हि धर्माणामनुभवसिद्धा, ततः प्राक्पश्चात्कालसंबन्धमवगमयति । न खल्वसदुप- द्यते, न च सद्विनश्यति । तदिदमाह-एवं हि न चित्तमिति । क्रोधोत्तर- कालं हि चित्तं रागधर्मकमनुभूयते । यदा च रागः क्रोधसमयेऽनागतत्वेन नासी- त्कथमसावुत्पद्येत १ अनुत्पन्नश्च कथमनुभूयेतेति ? भवत्वेवं तथापि कुतोऽध्वनामसंकर इति पृच्छति–किश्चेति । कि कारणमसं करे। चः पुनरर्थे । उत्तरमाह- त्रयाणां लक्षणानां युगपन्नास्ति संभवः । कस्मिन् १ एकस्यां चित्तवृत्तौ । क्रमेण तु लक्षणानामे कतमस्य स्वव्यञ्ज काञ्जनस्य ८ यो० सू०