पा. ३सू. १३ ] पातञ्जलयोगसूत्रम् परस्परेण विरुध्यन्ते, सामान्यानि त्वतिशयैः सह प्रवर्तन्ते । तस्माद्संकरः । यथा रागस्यैव क्वचित्समुदाचार इति न तदानीमन्यत्राभावः, किं तु केवलं सामान्येन समन्वागत इत्यस्ति तदा तत्र तस्य भावः, तथा लक्षणस्येति । न धर्मी त्र्यध्वा । धर्मास्तु त्र्यध्वानः । ते लक्षिता अलक्षिताश्च तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिदिंश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः । यथैका रेखा शतस्थाने शतं दशस्थाने दशैका चैकस्थाने, यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति । अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोषः कैश्चिदुक्तः । कथम् ? अध्वनो भावो भवेत्संभवेत् । लक्ष्याधीननिरूपणतया लक्षणानां लक्ष्याकारेण तद्वत्ता । अत्रैव पञ्चशिखाचार्यसंमतिमाह - उक्तं चेति । एतच्च प्रागेव व्याख्यातम् । उपसंहरति — तस्मादिति । आविर्भावतिरोभावरूपविरुद्धधर्मंसंसर्गादसंकरोऽ- ध्वनामिति । दृष्टान्तमाह—यथा रागस्येति । पूर्व क्रोधस्य रागसंबन्धावगमो दर्शित इति । इदानीं तु विषयान्तरवर्तिनो रागस्य विषयान्तरवर्तिना रागान्तरेण संबन्धावगम इति । दार्शन्तिकमाह तथा लक्षणस्येतीति । ननु सत्यप्यनेकान्ताभ्युपगमे मेदोऽस्तीति धर्मलक्षणावस्थान्यत्वे तदभिन्नस्य धर्मिणोऽप्यन्यत्वप्रसङ्गः। स एव च नेष्यते । तदनुगमानुभवविरोधावित्यत आह न धर्मी त्र्यध्वा इति । यतस्तदभिन्ना धर्मास्त्रयध्वानः। धर्माणामध्वत्रययोग मेव स्फोरयति–त इति । लक्षिता अभिव्यक्ता वर्तमाना इति यावत् । अलक्षिता अनभिव्यक्ता अनागता अतीताश्चेति यावत् । तत्र लक्षितां तां तामवस्थां बलवत्त्वदुर्बलत्वादिकां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः । अवस्थाशब्देन धर्मलक्षणावस्था उच्यन्ते । एतदुक्तं भवति- अनुभव एव हि धर्मिणो धर्मादीनां भेदाभेदौ व्यवस्थापयति । न ह्यैकान्ति के ऽमेदे धर्मादीनां धर्मिणो धर्मिरूपबद्धर्मादित्वम् । नाप्यैकान्तिके भेदे गवाश्वव- द्धर्मादित्वम् । स चानुभवोऽनैकान्तिकत्वमवस्थापयन्नपि धर्मादिषूपजनापायधर्म- केष्वपि धर्मिणमेक मनुगमयन्धर्माश्च परस्परतो व्यावर्तयन्प्रत्यात्ममनुभूयत इति तदनुसारिणो वयं न तमतिवर्त्य स्वेच्छया धर्मानुभवान् व्यवस्थापयितुमी- श्मह इति । अत्रैव लौकिकं दृष्टान्तमाह-यथैका रेखेति । यथा तदेव रेखा- स्वरूपं तत्तत्स्थानापेक्षया शतादित्वेन व्यपदिश्यत एवं तदेव धर्मिरूपं तत्त- द्धर्मलक्षणावस्थामेदेनान्यत्वेन प्रतिनिर्दिश्यत इत्यर्थः । दान्तिकार्थ दृष्टान्ता- न्तरमाह—यथा चैकत्वेऽपीति । अत्रान्तरे परोक्तं दोषमुत्थापयति—अवस्थेति । अवस्थापरिणामे धर्म- लक्षणावस्थापरिणामे कौटस्थ्यदोषप्रसङ्ग उक्तो घर्मिधर्मलक्षणावस्थानाम् ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२२१
दिखावट