पा. ३सू. १३ ] पातञ्जलयोगसूत्रम् यैवैषा धर्मद्वारा प्रपञ्चथत इति । तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्व- तीतानागतवर्तमानेषु भावान्यथात्वं भवति, न तु द्रव्यान्यथात्वम् । यथा सुवर्णभाजनस्य भित्त्वान्यथा क्रियमाणस्य भावान्यथात्वं भवति न सुवर्णा- न्यथात्वमिति । ११२ अपर आह--धर्मानभ्यधिको धर्मी पूत्रेतत्त्वानतिक्रमात् । पूर्वापरावस्था भेदमनुपतितः कौटस्थ्येनैव परिवर्तेत यद्यन्त्रयी स्यादिति । अयमदोषः । कस्मात् ? एकान्तानभ्युपगमात् । तदेतत्त्रैलोक्यं व्यक्ते- रपैति । कस्मात् ? नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति । विनाशप्रतिषेधात् । संकरात् । ननु धर्मिणो धर्माणामभिन्नत्वे धर्मिणोऽध्वनां च भेदे धर्मिणोऽनन्यत्वेन धर्मेणापीह धर्मिवद्भवितव्यमित्यत आह-तत्र धर्मस्येति । भावः संस्थानभेदः । सुवर्णादेर्यथा भाजनस्य रुचकस्वस्तिकव्यप देशभेदो भवति तन्मात्रमन्यथा भवति, न तु द्रव्यं सुवर्णमसुवर्णतामुपैति, अत्यन्तभेदाभावादिति वक्ष्यमाणोभिसंधिः । एकान्तवादिनं बौद्धमुत्थापयति - अपर आहेति । धर्मा एव हि रुच- कादयस्तथोत्पन्नाः परमार्थसन्तो न पुनः सुवर्णं नाम किञ्चिदेकमनेके- ध्वनुगतं द्रव्यमिति । यदि पुनर्निवर्तमानेष्वपि धर्मेषु द्रव्यमनुगतं भवेत्ततो न चितिशक्तिवत्परिणमेत । अपि तु कौटस्थ्येनैव विपरिवर्तत । परिणामात्मकं रूपं परिहाय रूपान्तरेण कौटस्थ्येन परिवर्तनं परिवृत्तिः । यथा चितिशक्तिरन्यथा- न्यथाभावं भजमानेष्वपि गुणेषु स्वरूपादप्रच्युता कूटस्थनित्यैवं सुवर्णाद्यपि स्यात् । न चेष्यते, तस्मान्न द्रव्यमतिरिक्तं धर्मेभ्य इति । परिहरति-अयमदोष इति । कस्मात् । एकान्तानभ्युपगमात् । यदि चिति- शक्तेरिव द्रव्यस्यै कान्तिकीं नित्यतामभ्युपगच्छेम तत एवमुपालभ्येमहि । न त्वैका- न्तिकीं नित्यतामातिष्ठामहे । कि तु तदेतत्रैलोक्यं न तु द्रव्यमात्रं व्यक्तेरर्थ- क्रियाकारिणो रूपादपैति । कस्मात् ? नित्यत्वप्रतिषेधात्प्रमाणेन । यदि द्दि घटो न्क्तेर्नापेयात्कपालर्कराचूर्णादिष्ववस्थास्वपि व्यक्तो घट इति पूर्ववदुपलब्ध्य- र्थक्रिये कुर्यात् । तस्मादनित्यं त्रैलोक्यम् । अस्तु तर्ह्यनित्यमेवोपलब्ध्यर्थक्रियार हितत्वेन गगनारविन्दवदतितुच्छत्वादित्यत आह - अपेतमप्यस्ति । नात्यन्त तुच्छता येनैकान्ततोऽनित्यं स्यादित्यर्थः । कस्मात् ? विनाशप्रतिषेधात्प्रमाणेन । तथा हि–यत्तुच्छं न तत्कदाचिदप्युपलब्ध्यर्थक्रिये करोति यथा गगनारविन्दम्। करोति चैतत्त्रैलोक्यं कदाचिदुप्युपलब्ध्यर्थक्रिये इति । तथोत्पत्तिमद्रव्यत्वधर्म- लक्षणावस्थायोगित्वादयोऽप्यत्यन्त तुच्छागगन नलिननरविषाणादिव्यावृत्ताः सत्त्व- हेतव उदाहार्याः । तथा च नात्यन्तनित्यो येन चितिशक्तिवत्कूटस्थनित्यः
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२१९
दिखावट