वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [पा. २ सू. २८ तत्रोत्पत्तिकारणं-मनो भवति विज्ञानस्य । स्थितिकारणं-मनसः पुरुषार्थता, शरीरस्येवाहार इति । अभिव्यक्तिकारणं-यथा रूपस्यालोकस्तथा रूपज्ञानम् । विकारकारण-मनसो विषयान्तरम् यथाग्निः पाक्यस्य । प्रत्ययकारणं- धूमज्ञानसग्निज्ञानस्य । प्राप्तिकारणं- योगाङ्गानुष्ठानं विवेकख्यातेः । वियोग- कारणं तदेवाशुद्धेः । अन्यत्वकारणं-यथा सुवर्णस्य सुवर्णकारः । एवमेकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे, द्वो पो दुःखत्ये, रागः सुखत्वे, तत्त्वज्ञानं माध्यस्थ्ये । ८९ अत्रोदाहरणान्याह-तत्रोत्पत्तिकारणमिति | मनो हि विज्ञानमव्यपदे- श्यावस्थातोऽपनीय वर्तमानावस्थामापादयदुत्पत्तिकारणं विज्ञानस्य । स्थिति- कारणं मनसः पुरुषार्थता । अस्मिताया उत्पन्नं मनस्तावदवतिष्ठते न यावद्- द्विविधं पुरुषार्थमभिनिर्वर्तयति। अथ निर्वर्तित पुरुषार्थद्वयं स्थितेरपैति, तस्मा- त्स्वकारणादुत्पन्नस्य मनसोऽनागतपुरुषार्थता स्थितिकारणम् । दृष्टान्तमाह- शरीरस्येवेति । प्रत्यक्षज्ञान निमित्तमिन्द्रियद्वारा वा स्वतो वा विषयस्य संस्क्रिया- भिव्यक्तिस्तस्याः कारणं यथा रूपस्यालोकः । विकारकारणं मनसो विषयान्तरम् | यथा हि मृकण्डोः समाहितमनसो बलकीविपञ्चचमानपञ्चमस्वर- श्रवणसमनन्तरमुन्मीलिताक्षस्य स्वरूपलावण्ययौवनसंपन्नामप्सरसं प्रम्लोचा- मीक्षमाणस्य समाधिमपहाय तस्यां सकं मनो बभूवेति । अत्रैव निदर्शनमाह- यथाग्निः पाक्यस्य तण्डुलादेः कठिनावयवसंनिवेशस्य प्रशिथिलावयवसयो- गलक्षणस्य विकारस्य कारणम् । सत एव विषयस्य प्रत्ययकारणं धूमज्ञानम- ग्निज्ञानस्येति । ज्ञायत इति ज्ञानम् । अनिश्वासौ ज्ञानं चेत्यग्निज्ञानं तस्य । एत- दुक्तं भवति–वर्तमानस्यैवाग्नेर्ज्ञेयस्य प्रत्ययकारणतया कारणमिति । प्रप्ति- कारणम् –औत्सर्गिकी निरपेक्षाणां कारणानां कार्यक्रिय। प्राप्तिः । तस्याः कुत- श्चिदपवादोऽप्राप्तिः । यथा निम्नोपसर्पण स्वभावानामपां प्रतिबन्धः सेतुना, तथेहापि बुद्धिसत्त्वस्य सुखप्रकाशशीलस्य स्वाभाविकी सुखविवेकख्यातिजनकता प्राप्तिः । सा कुतश्चिदधर्मात्तमसो वा प्रतिबन्धान भवति । धर्माद्योगाङ्गानुष्ठानाद्वा तदपनये तदप्रतिबद्धवृ त्त स्वभावत एव तज्जनकतया तदाप्नोति । यथा वक्ष्यति- निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ( ४ | ३ ) इति । तदेवं विवेकख्यातिलक्षणकार्यापेक्षया प्राप्तिकारणमुक्तम् । अत्रान्तरकार्या पेक्षया तु तदेव वियोगकारणमित्याह – वियोगकारणमिति । अन्यत्वकार- णमाह–अन्यत्वकारणं यथा सुवर्णकारः सुवर्णस्येति । कटककुण्डलकेयूरादि- भ्यो भिन्नाभिन्नस्य भेदविवक्षया कटकादिभिन्नस्याभेदविवक्षया कटकाद्यभिन्न स्व सुवर्णस्य कुण्डलादन्यत्वम् । तथा च कटककारी सुवर्णकारः कुण्डलादभिन्ना
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१९६
दिखावट