पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा २ सू. २९ ] पातञ्जलयोगसूत्रम् 'धृतिकारणं शरीरमिन्द्रियाणाम् तानि च तस्य । महाभूतानि शरीराणाम्, तानि च परस्परं सर्वेषाम् । तैर्यग्यौनमानुषदैवतानि च परस्परार्थत्वादिति । एवं नव कारणानि । तानि च यथासंभवं पदार्थान्तरेष्वपि योज्यानि । योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति ।। २८ ।। तत्र योगाङ्गान्यवधार्यन्ते - यमनियमासनप्राणायामप्रत्याहारधारणाध्यान- समाधयोऽष्टावङ्गानि ॥ २९ ॥ त्सुवर्णादन्यत्कुवँन्नन्यत्व कारणम् । अग्निरपि पाक्यस्यान्यत्वकारणं यद्यपि, तथा- पि धर्मिणो धर्मयोः पुलाकत्व तण्डुलत्वयोर्भेदाविवक्षया धर्मयोरुपजनापायेऽपि धर्म्यनुवर्तत इति न तस्यान्यत्वं शक्यं वक्तुमिति विकारमात्रकारणत्वमुक्तमिति न संकरः । न च संस्थानभेदो धर्मिणोऽन्यत्वकारणमिति व्याख्येयम्, सुवर्ण- कार इत्यस्यासंगतेः । बाह्यमन्यत्वकारणमुपन्यस्याध्यात्मिकमुदाहरति — एवमे- कस्येति । अविद्या कमनीयेयं कन्यकेत्यादिज्ञानम् । सम्मोहयोगात्स एव स्त्रीप्र त्ययो मूढो विषष्णो भवति चैत्रस्य, मैत्रस्य पुण्यवतो बत कलत्ररत्नमेतन्न तु मम भाग्यहोनस्येति । एवं सपत्नीजनस्य तस्यां द्वेषः स्त्रीप्रत्ययस्य दुःखत्वे । एवं मैत्रस्य तस्या भर्तृ रागस्तस्यैव स्त्रीप्रत्ययस्य सुखत्वे । तत्त्वज्ञानं त्वङ्मांसमे- दोऽस्थिमजासमूहः स्त्रीकायः स्थानबीजादिभिरशुचिरिति विवेकिनां माध्यस्थ्ये वैराग्ये कारणमिति । धृतिकारणं शरीरमिन्द्रियाणां विधारकम् । इन्द्रियाणि च शरीरस्य । सामान्या करणवृत्तिर्हि प्राणाद्या वायवः पञ्च। तदभावे शरीरपातात् । एवं मांसादिकायामानामपि परस्परं विधार्यविधारकत्वम् । एवं महाभूतानि पृथिव्यादीनि मनुष्यवरुणसूर्यगन्धवहशशिलोकनिवासिनां शरीराणाम् । तानि च परस्परम् । पृथिव्यां हि गन्धरसरूपस्पर्शशब्दगुणायां पञ्च महाभूतानि परस्परं विधार्यविधारकभावेनावस्थितान्यप्सु चत्वारि तेजसि त्रीणि द्वे च मातरिश्वनीति । तैर्यग्योनमानुषदैवतादीनि च विधार्यविधारक भावेनावस्थितानि । नन्वाधार/धेय- भावरहितानां कुतस्तत्त्वमित्यत आह - परस्परार्थत्वादिति। मनुष्यशरीरं हि पशुपक्षिमृगसरीसृपस्थावरशरीरोपयोगेन प्रियते । एवं व्याघ्रादिशरीरमपि मनुष्यपशुमृगादिशरीरोपयोगेन । एवं पशुमृगादिशरीरमपि स्थावराद्युपयोगेन । एवं दैवशरीरमपि मनुष्योपहृतच्छाग मृगकपिञ्जलमांसाज्यपुरोडाशसहकारशाखा प्रस्तरादिभिरिज्यमानं तदुपयोगेन । एवं देवतापि वरदानवृष्टयादिभिर्मनुष्या दीनि धारयतीत्यस्ति परस्परार्थत्वमित्यर्थः । शेषं सुगमम् ॥ २८ ॥ संप्रति न्यूनाधिकसंख्याव्यवच्छेदाथं योगाङ्गान्यवधारयति-तत्र योगा- मान्यवधार्यन्त इति । यमनियमासनप्राणायाम प्रत्याहारधारणाध्यान-