पा. २ सू. २८ ] पातञ्जलयोगसूत्रम् प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति, गुणातीतत्वादिति ||२७|| सिद्भा भवति विवेकख्यातिनोपाय इति । न च सिद्धिरन्तरेण साधन मित्येतदारभ्यते - ८८ योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥ २८ ॥ योगाङ्गान्यष्टावभिधायिष्यमाणानि | तेषामनुष्ठानात्पञ्चपर्वणो विपर्य- यस्याशद्धिरूपस्य क्षयो नाशः । तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः । यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते । यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते । सा खल्वेषा विवृद्धिः प्रकर्षमनुभवत्या विवेकख्यातेः । आ गुणपुर स्वरूपविज्ञाना- दित्यर्थः । योगाङ्गानुष्ठानमशुद्धेवियोगकारणम् यथा परशुश्छेद्यस्य । बिवेकख्यातेस्तु प्राप्तिकारणं यथा धर्मः सुखस्य, नान्यथा कारणम् । कति चैतानि कारणानि शास्त्रे भवन्ति ? नवैवेत्याह । तद्यथा- उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः । वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥ इति । प्रतिप्रसव इति । प्रधानलयेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीत- त्वादिति ॥ २७ ॥ तदेवं चतुरो व्यूहानुक्त्वा तन्मध्यपतितस्य हानोपायस्य विवेकख्यातेगोंदो- हनादिवत्प्रागसिद्धेरसिद्धस्य चोपायत्वाभावात्सिद्धथ पायान् वक्तुमारभत इत्याह- सिद्धेति । तत्राभिधास्यमानानां साधनानां येन प्रकारेण विवेकख्यात्युपायत्वं तद्दर्शयति सूत्रेण—योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः । योगाङ्गानि हि यथायोगं दृष्टादृष्टद्वारेणाशुद्धि क्षिण्वन्ति । पञ्चपर्वणो विपर्य यस्येत्युपलक्षणं पुण्यापुण्ययोरपि जात्यायुर्भोगहेतुत्वेनाशुद्धिरूपत्वादिति । शेषं सुगमम् । नानाविधस्य कारणभावस्य दर्शनाद्योगाङ्गानुष्ठानस्य कीदृशं कारण- त्वमित्यत आह— – योगाङ्गानुष्ठानमिति । अशुद्धया वियोजयति बुद्धिसत्त्व- मित्यशुद्धेर्वियोगकारणम् । दृष्टान्तमाह-यथा परशुरिति । परशुश्छेद्यं वृक्षं मूलेन वियोजयति । अशुद्धया विजोयद् बुद्धिसत्त्वं विवेकख्याति प्रापयति । यथा धर्मः सुखम् । तथा योगांगानुष्ठानं विवेकख्यातेः प्राप्तिकारणं नान्येन प्रकारेणेत्याह - विवेक ख्याते स्त्विति । नान्यथेति प्रतिषेधश्रवणात्पृच्छति कति चैतानीति । उत्तरम् - नवैवेति । तानि दर्शयति कारिकया- तद्यथा उत्पत्तीति ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१९५
दिखावट