वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [पा. २ सू, २७ तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः । सप्तवेत्यशुद्धयावरणमलापगमाच्चि- न्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति । तद्यथा- १. परिज्ञातं हेयं नास्य पुनः परिज्ञेयमस्ति । २. क्षीणा हेयहेतवो न पुनरेतेषां क्षेतव्यमस्ति । ३. साक्षात्कृतं निरोधसमाधिना हानम् । ४. भावितो विवेकख्यातिरूपो हानोपाय इति । एषा चतुष्टयी कार्या विमुक्तिः प्रज्ञायाः । चित्तविमुक्तिस्तु त्रयी । ५ चरिताधिकारा बुद्धिः । गुणा गिरिशिखरकूट- च्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति । न चैषां प्रविलीनानां पुनरस्त्युत्पादः, प्रयोजनाभावादिति । ७. एतस्यामवस्थायां गुणसंबन्धातीतः स्वरूपमात्रज्योतिरमलः केवली पुरुष इति । एतां सप्तविधां प्रान्तभूमिप्रज्ञामनुपश्यन्पुरुषः कुशल इत्याख्यायते । ८७ प्रज्ञेत्यनेन । व्याचष्टे–तस्येति प्रत्युदितख्यातेर्वर्तमानख्यातेर्योगिनः प्रत्याम्नायः परामर्श.। अशुद्धिरेवावरणं चित्तसत्त्वस्य, तदेव मलं तस्थापगमाच्चित्तस्य प्रत्य- यान्तरानुत्पादे तामसराज सव्युत्थानप्रत्ययानुसादे निर्विप्लव विवेकख्यातिनिष्ठामा- पन्नस्य सप्तप्रकारैव प्रज्ञा विवेकिनो भवति | विषयभेदात्प्रज्ञाभेदः । प्रकृष्टोऽन्तो यासां भूमीनामवस्थानां तास्तथोक्ताः । यतः परं नास्तिस प्रकर्षः। प्रान्ता भूमयो यस्याः प्रज्ञाया विवेकख्यातेः सा तथोक्ता । ता एव सप्तप्रकाराः प्रज्ञाभूमीरुदाहरति -- तद्यथेति । तत्र पुरुषप्रयत्ननिष्पा- द्यासु चतसृषु भूमिषु प्रथमामुदाहरति-परिज्ञातं हेयमिति । यावत्किल प्राधानिकं तत्सर्वं परिणामतापसंस्कारैर्गुणवृत्तिविरोधाद् दुःखमेवेति हेयम् । तत्परिज्ञातम् । प्रान्ततां दर्शयति- नास्य पुनः किंचिदपरिज्ञातं - परिज्ञेयमस्ति । द्वितीयामाह- / क्षीणा इति । प्रान्ततामाह - न पुनरिति । तृतीयामाह—साक्षात्कृतमिति । प्रत्यक्षेण निश्चितं मया संप्रज्ञातावस्थायामेव निरोधसमाधिसाध्यं हानम् । न पुनरस्मात् परं निश्चेतव्यमस्तीति शेषः । चतुर्थीमाह-भावितो निष्पादितो विवेकख्यातिरूपो हानोपायः, नास्याः परं भावनीयमस्तीति शेषः । एषा चतुष्टयी कार्या विमुक्तिः समाप्तिः । कार्यतया प्रयत्नव्याप्यता दर्शिता | क्वचि त्पाठः कार्यविमुक्तिरिति, कार्यान्तरेण विमुक्तिः प्रज्ञाया इत्यर्थः । प्रयत्न- निष्पाद्यानुनिष्पादनीयामप्रयत्नसाध्यां चित्तविमुक्तिमाह—चित्तविमुक्तिस्तु त्रयीति । प्रथमामाह - चरिताधिकाराः बुद्धिः । कृतभोगापवर्गकार्येत्यर्थः । द्वितीयामाह—गुणा इति । प्रान्ततामाह - न चैषामिति । तृतीयामाह-- एतस्यामवस्थायामिति । एतस्यामवस्थायां जीवन्नेव पुरुषः कुशलो मुक्त इत्युच्यते, चरमदेहत्वादित्याह- - एतामिति । अनौपचारिकं मुक्तमाद्द- -
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१९४
दिखावट